पृष्ठम्:पद्मिनीपरिणयः.pdf/७

पुटमेतत् सुपुष्टितम्
6

एवमतीतेषु द्वित्रवत्सरेषु चेन्नपट्टणनिवासी तिरुनेल्वेलिजिल्ला कलेक्टर् पदवीविराजमनः आनरबुल् रामराव् तनूभवः वरदरायाभिख्यः द्वाविंशवयस्कः कश्चित् प्रभुमणिः श्रीकृष्णस्वामिप्रभुदर्शनायागत्य तत्र सम्भाषणावसरे सन्निहितं कवीन्द्रं स्वस्य गीर्वाणभाषापोषणायार्थयामास । तदर्थनां 'तथे'त्यङ्गीकृत्य न्यवेदयद्गुरवे । गुरुमणिस्तमूरीकृत्य शिष्यपदे बहु वरदरायसमाराधितः तेन प्रभुणा तत्र तत्र सञ्चरन् तस्य पाश्चात्यमतानुसारेण स्वमतानादरतां विज्ञाय स्वसन्निधिमहिम्ना अचिरादेव तमुत्तमवेदवित्तमं स्वमतवर्धनोद्युक्तं संस्कृतभाषासारज्ञं कविमणिं भगवदारधननिरतञ्च कारयामास । एवं परमधार्मिकभूतस्वकुमारवरदरायालोकनाय स महात्मा रामरायस्समागत्य वीक्ष्यैतादृशं पुत्ररत्नं परमानन्दमग्नः सन्निहितमाचार्यं प्रति ‘ननु सुन्दरराज कविराज ! अस्मत्कुलमुद्भूतं त्वयैव' इति प्रणम्य बहुधा स्तुत्वा सकुमारं शास्त्रिवरेण्यं चेन्नपुरीं नयन् तत्र बहुधा सम्मानयामास । तदन्तरा कविमणिरचितं हनूमद्विजयनाटकञ्च आन्ध्रलिपिभिः मुद्रापयामास ।

तत्र मासमेकं चिरायति कविसिंहे कदाचिद्वरदरायप्रभु: स्वजनन्यास्वप्रियकान्तायाश्च अचिरादकारणविग्रहं आचार्याय विज्ञाप्य एतन्निरूपकः कश्चिद् ग्रन्थोऽवश्यं कर्तव्य इति सम्भाषणान्तरे जगाद । तदा उदासीन इव कविमणिः दिनद्वयादर्वागेव स्नुषाविजयाख्यं बहुलोकपरिज्ञाननिरूपकं नाटकं निर्माय प्रभवे न्यवेदयत् । स महाविस्मयानन्दपरवशः स्वपित्रादिभिस्सह समग्रं रूपकमाकर्ण्य गुरोस्सर्वज्ञतां तत्र तत्र प्रख्याप्य क्षिप्रं ग्रन्थलिपिभिः मुद्राप्य स्नुषविजयरूपकं उपचकार भुवनमण्डलाय ।

अथ स्वपुरीं प्राप्य गुरुः कञ्चित्समयं वसन् पद्मिनीपरिणयाख्यं नाटकमिदं नीतिरामायणाख्यं श्रीरामभद्रस्तुतिशतकाख्यञ्च ग्रन्थद्वयमरचयत् ।

तदानीमनन्तशयनसंस्थाने श्रीविशाखमहाराजतुलाभारमहोत्सवः प्रवृत्त: । तत्र रामस्वामिशास्त्रि केरलवर्मदेवादिभिः पत्रमुखेनाहूतः श्रीमदाचार्यः स्यानन्दूरपुरीं प्राप्य तत्र राजकीयप्रभुभिर्गुरुभिश्च बहुधा सत्कृतः प्राप्योत्तमसम्भावनां श्रीवञ्चिराज्ञीप्रियतममुखेन साक्षान्महाराजदर्शनायायतत । राज्ञा चाङ्गीकृतकेरलवर्मदेवनिवेदनेन निजदर्शनाय निर्दिष्टघण्टायां राजदूतैराहूतः गुरुमणिः प्रासादमारुह्य एकान्तवर्तिनं केरलचक्रवर्तिनं समर्यादं सविनयं प्रतीक्षमाण आस्त । सद्यो नृपालकविमणिः भावुकप्रश्नात्परं 'ननु कविमणे !

'दधार मूर्ध्ना गिरिशं शशाङ्कः'

इति समस्यामदात् । राजाज्ञोत्तरक्षण एव सुंदरकविरुत्थाय

'पुरा पुराणां त्रितयं विजेतुं हरे समारुह्य महीरथाङ्कम् ।
सूर्येन्दुचक्रं कुतुकात्प्रयाति दधार मूर्ध्ना गिरिशं शशाङ्कः'॥