पुटमेतत् सुपुष्टितम्
[XIII.1
JOURNAL OF S. V. ORIENTAL INSTITUTE
विदू-सरिसं एदाणं पसाहणं अपुव्वं सोहं उप्पादेइ । (सदृशमेतयोः प्रसाधनमपूर्वां शोभामुत्पादयति)
शार-सर्वं भवादृशानां प्रसादात् ।
विदू-णो अह्मारिसाणं पसादादो ईरिसं खेमं होइ । अविदु तुह्मारिसाणं एव्व ।
- (नो अस्मादृशानां प्रसादादीदृशं क्षेमं भवति । अपितु युष्मादृशानामेव)
जीमू-(कुमुदाकरं वीक्ष्य सकुतुकं) (स्वगतम्)
- अरुणा रदनाम्बरे मृगाक्षी धवलाभा हसिते सितेतराऽक्ष्णि ।
- अकलङ्कसुवर्णवर्णगात्री लिखितेवात्मभुवा विभाति चित्रे ॥
(पद्मिनीं दृष्ट्वा, स्वगतम्)
- स्यालं कोमलवपुषं सालङ्कारं निरीक्षमाणं माम् ।
- आलिङ्गनप्रवृत्तं रुणध्दि पौंस्नं तदीयरूपमिह ॥
शार-आर्य ! जीमूत !
- त्वद्दारभावं सम्प्राप्य कासारापत्यमीदृशम् ।
- विचिन्तयाविनाशं त्वां प्रापयिष्यत्यसंशयम् ॥
कासा-
- अपत्येन ममानेन भजन्नुपयमं भवान् ।
- भुवनेऽस्मिन्नवाप्नोतु भूतानां सर्वनिष्कृतिम् ॥
शार-भद्र ! भर्तुः आयुष्मत्त्वादिगुणवृद्धये विवाहप्रभृति समाचरणीयं व्रतमस्मै तव कलत्राय मयोपदिष्टम् । तन्मासत्रयेण समाप्येत । तावदवधि व्रतभङ्गहेतुर्भवता न किमपि कार्यम् ।
जीमू-यथाऽऽज्ञापयति गुरुः ।
विद्-तदो भवं जहा ण रभिस्सइ जुवदीहिं पुव्वाहिं तह करिस्सदि महाराअस्स श्रवच्चम् ।
- (ततो भवान् यथा न रंस्यते युवतिभिः पूर्वाभिः तथा करिष्यति महाराजस्यापत्यम्)
कासा-आर्य ! चिरात्पद्मिनीमवस्कन्दितुं कामयते मत्तेभकः । ततो भवता भवितव्यं समवहितेन तद्रक्षणे ।
जीमू-कः शक्नोति मदधीनामेनामवस्कन्दितुम् ?
56