पृष्ठम्:पद्मिनीपरिणयः.pdf/८०

पुटमेतत् सुपुष्टितम्
1952.
श्रीपद्मिनीपरिणये षष्ठेऽङ्कः

 सखे ! कुतः प्रेयस्या दर्शनमितः परम् ?

मत्कृते हरिणीनेत्रा प्राणान्मुन्ञ्चेन्न संशयः ।
तत्कृतेऽसून्न मोक्ष्यामि यदि स्यान्मे कृतघ्नता ॥

 तत् प्रवर्धय जातवेदसम् ।

अरु-अलं सम्भ्रमेण ।

भा--

यस्यां निवासमयते सततं दृढं श्री-
[१]र्या लोकमङ्गलकरी भुवनत्रयस्य ।
तस्या विकासमिह काममकुर्वता मे
कोऽर्थो भवेदहह तेन महोदयेन ॥

अरु-- सखे ! सर्वथा रक्षद्भिः प्राणान् चिरादाप्यते हि श्रेयः ।

भा–सखे ! मा रौत्सीर्मम मरणम् । मारो हि समारोपयति मुहुर्ज्यां धनुषि मम वेधनाय । (इति मूर्च्छति) ।

अरु-(स्वगतम्) सखा कथञ्चिदपि समाश्वासनं नेतव्य इव भाति । किं कुर्मः ? (पुरो निरीक्ष्य) आगच्छति मधुव्रता द्रुतं किमर्थम् ?

मधुव्रता—(प्रविश्य) अय्य ! अरुण ! कुदो तुह वअस्सो मुच्छिओ । (आर्य ! अरुण ! कुतः तव वयस्यो मूर्च्छितः) ।

अरु-भद्रे ! कथमजानतीव सख्युर्मूर्च्छाकारणं पृच्छसि ?

मधु-जदि जाणेमि किं पुछिस्सं ? (यदि जानामि किं प्रक्ष्यामि)?

अरु-किमन्यत्कारणमस्य पद्मिनीविश्लेषं विना मूर्छायाम् ?

मधु-(स्व) एदे जहत्थं ण मुणंति । तदो पुणोऽपि से विरहवेअणं वद्धअंती तदो समएमि । (प्रकाशम्) अय्य ! एदं बोहेहि, समस्ससेमि । (एतौ यथार्थं न जानीत: । तत: पुनरपि अस्य विरहवेदनां वर्धयन्ती ततः शमयामि । (प्र) आर्य ! एतं बोधय, समाश्वासयामि । (अरुण: वस्त्रान्तेन वीजयन्)

अरु-सखे ! उतिष्ठ ।

भास्क-(उन्मील्य नेत्रे) भद्रे ! किं तव सखी भ्रमरिका पद्मिनीमनुगता ?

  1. आलोकमङ्गलकरी = दर्शनेन क्षेमङ्करी ।
63