पुटमेतत् सुपुष्टितम्
[XIII 2
JOURNAL OF S. V. ORIENTAL INSTITUTE
मधु-को संसओ । कहं पदुमिणीए अणुगमणं विणा भमरिआजीवणं ?। (कस्संशयः कथं पद्मिन्यनुगमनं विना भ्रमरिकाजीवनम् ?)।
भास्क-हा ! भ्रमरिकाऽपि द्रष्टुं न लभ्यते ।
- अवीक्षमाणो दयिताममुष्याः
- संसर्गसम्प्राप्तमनोज्ञशीलाम् ।
- आलीमहं वा कलयामि पात्रीं
- सङ्गेन मल्ल्या इव सौरभाढ्याम् ॥
- अवीक्षमाणो दयिताममुष्याः
मधु-अय्य ! कुदो परकळतं कामअन्तो एवं सोअसि ? (अर्य ! कुत: परकलत्रं कामयमान एवं शोचसि ? ।
भा-हा कष्टम् । पद्मिनी परकलत्रं संवृत्तेति । इतः परं किमस्ति मे शोच्यम् ।
मधु-अय्य ! अरुण ! महप्पाणं एआरिसाणं मणं परकळत्तं ण कामइस्सदि खु ।
- (आर्य ! अरुण ! महात्मनामेतादृशानां मनः परकलत्रं न कामयिष्यते खलु ? ) ।
अरु-तत्त्वमाह भवती ।
भास्क-(स्व)
- रे चित्त ? कस्मात्परदारकामं भजत्सदा पापमुपैषि मूढ !
- यद्वा प्रवृत्तिस्तव निन्द्यकर्मण्येतावदन्तं न कदाचिदासीत् ॥
(इति मुखं नमयति) ।
अरु- भद्रे !
- न हि कामयते साध्वीं परदारतया स्थिताम् ।
- किन्तु तामात्मविश्लेषान्म्रियमाणां तु शोचति ॥
भास्क-भद्रे ! त्वं क्व प्रस्थिताऽसि ?
मधु-इदो एव्व (इत एव) ।
अरु–किन्निमित्तम् ?
मधु-अज्जो समस्सणिज्जोति महाराएण णियुतह्मि । (आर्यस्समाश्वासनीय इति महाराजेन नियुक्ताऽसि) ।
भास्क-कथमाश्वासनीयोऽहं सम्प्रत्येतां दशां प्रपन्नः ।
64