मधु-किं भट्टदारिआए भद्द्रे मिळन्ते सुहसूअणं णिमित्तं ण दिट्टम् ।
(किं भर्तृदारिकया भद्रे मिलति शुभसूचकं निमित्तं न दृष्टम् ?) ।
भास्क-भद्रे !
- तां पश्यति प्रथममिन्दुमुखीं कृशाङ्गीं
- मय्यादरान्मम हि दक्षिणमक्ष्यवल्गत् ।
- तां संस्पृशत्यथ च बाहुरसव्य एष
- निष्कारणं द्रुतमवेपत भूपकन्याम् ॥
- तां पश्यति प्रथममिन्दुमुखीं कृशाङ्गीं
मधु-तारिसं णिमित्तं कहं भवे विफलम् ? (तादृशं निमित्तं कथं भवेद्विफलम्?) ।
भास्क-कथमभूदिति भण ।
मधु-होदु । कहं वा भअवदीये ळच्छीए समाराहणं कामिदं ण करिस्सदि पदुमिणीए ।
(भवतु, कथं वा भगवत्या लक्ष्म्याः समाराधनं कामितं न करिष्यति पद्मिन्याः) ।
भास्क-कामितं नाकरोदिति ब्रूहि ।
मधु-तहा भणिदुं मह जीहा ण पसरइ । (तथा भणितुं मम जिह्वा न प्रसरति) ।
अरु-कुत: ?
मधु-तत्थ काळणं भवे । (तत्र कारणं भवेत् ) ।।
अरु–किं जानासि तत्र कारणम् ?
मधु-देवीए भत्ती एव्व काळणम् । (देव्या भक्तिरेव कारणम्) ।
भास्क-सखे ! किं वृथा विलम्बेन ? प्रवर्धय पावकम् ।
मधु-किं णिमित्तम् ? (किन्निमितम् ?)
भास्क-प्रवेशाय ।
मधु-कहिम् ? (क्व ?)
भास्क-अग्नौ ।
मधु-कस्स किदे । (कस्य कृते) ।
भास्क-शरीरत्यागाय ।
मधु-अतिरमणिज्जं सअळलोआणंदकारि तुह सरीरं ण खु उवेक्खणिज्जम् । (अतिरमणीयं सकललोकानन्दकारि तव शरीरं न खलूपेक्षणीयम् ) ।