भास्क-
यन्मे शरीरं दयिता स्मरन्ती सन्त्यजेदसून् ।
हृतकस्यास्य रक्षायां न फलं वेद्मि केिञ्चन ॥
मधु-तुह सरीरं सुमरंती सा ण पाणे मुंचे । (तव शरीरं स्मरन्ती सा न प्राणान्मुञ्चेत्) ।
भास्क-किं तस्या मयि प्रणयातिशयमजानतीव ब्रूषे ? ।
मधु-जाणेमि एव्व । (जानाम्येव) ।
भास्क-सखे ! मुधा मां धनञ्जयं प्रवेष्टुकामं रुन्धे मधुव्रता ।
मधु-अहं ण करिस्सं तुह धणञ्जअप्पवेसरोहणम् । (अहं न करिष्यामि तव धनञ्जय प्रवेशरोधनम्) ।
भास्क-भद्रे !
त्वं दयाभरसम्पूर्णहृदयाऽद्य निवेदय ।
इमं कासारराजाय प्रणामं चरमं मम ।
(इत्यञ्जलिं धत्ते)
मधु–को णिदेसो पदुमिणीए' (को निदेशः पद्मिन्याः ?)
भास्क-भद्रे ! किमर्थं परलोकं प्राप्तायाः तस्य निदेशं कामयसे ?
मधु-जदि परळोअं ण पता ? (यदि परलोकं न प्राप्ता ?)
भास्क-
अलब्ध्वा मां प्रियं दैवात्परस्यापि वशं गता ।
यदि जीवति सा तस्यै निदेशोऽनुचितः खलु ॥
मधु-(सस्मितम्) परवसं गआ जदि एव्व सा जीवइ ताए णिदेसो अणुइदो । (परवशङ्गता यद्येव सा जीवति तस्यै निदेशोऽनुचितः) ।
भास्क-(ससग्भ्रमम्) किं न परवशं गता ? ।
मधु-जदि पदुमिणी पिअं विणा परं पत्ता कहं कासारो जीवे ।
कहं वा भमरिआ । कहं वा अहं जीवेमि । (यदि पद्मिनी प्रियं विना परं प्राप्ता कथं कासारो जीवेत् ? कथं वा भ्रमरिका ? कथं वा अहं जीवामि ?) ।
अरु--सखे ! भद्राया वचनमस्माकं भ्रदं जनयतीव । तन्न सम्भ्रमः कार्यः ।
भास्क--सखे ! मम समाश्वासनोपायोऽयम् ।