पृष्ठम्:पद्मिनीपरिणयः.pdf/९९

पुटमेतत् सुपुष्टितम्
[XIII.2
JOURNAL OF S. V. ORIENTAL INSTITUTE

विदू-दाणिं सो कहिं गओ ? (इदानीं स क्व गतः ?) ।

कासा-वत्सयोः स्पष्टविवाहकृते समानेतुमुदयधरं स्वयं यातः ।

विदू-चतुरो जोई (चतुरो योगी )

कासा-वत्स ! वृत्तान्तावगमाय जीमूतनगरं निगूढं नीतो मया चारोऽपि भूयो न दृश्यते ।

प्रतिहारी-(प्रविश्य) देव्व ! चारो पढिहारभूमीं गओ (देव, चारः प्रतिहारभूमिं गतः) ।

कासा-प्रवेश्यताम् ।

प्रति-तह (तथा) (इति निष्क्रम्य तेन सह पुनः प्रविस्य) इदो इदो (इत इतः) । (चारः राजानं प्रणमति) ।

कासा-अपि सख्या सह कुशली वत्सः ?

चारः-कुसळी वट्टइ । तुह णिदेसादो तुवरिअं गच्छन्तो अहं जीमूअपुरादो मत्तेभअणअरं पडट्टमाणं कुमारं सह सहिणा मज्झेमभ्गं दिट्ठवं । (कुशली वर्तते । तव निदेशात् त्वरितं गच्छन् अहं जीमूतपुरात् मत्तेभकनगरं प्रतिष्ठमानं कुमारं सह सख्या मध्येमार्गं दृष्टवान्) ।

विदू--तदो (ततः) ।

चारः-सो एदं ळेहं दाऊण विसट्टवंतो मम् । (स एतं लेखं दत्त्वा विसृष्टवान्माम्)

(इति लेखं समर्पयति) ।

कासा-(आदाय वाचयति) “स्वस्ति श्रीमत्तातपादानां प्रणामसहस्रं समर्प्य विज्ञाप्यते । श्रीमदनुग्रहात्सहवयस्यः कुशली वर्ते । भगवता शारदानन्देन समुपदिष्टमुपायमवलम्ब्य पद्मिनी भद्रा मत्तेभकेन हृतेति जीमूतस्य हृदये दृढीकृतं तस्मिन्वैरम् । ततो जीमूतः कामं क्रुद्धः नेष्यामि मत्तेभकं क्षयमिति प्रतिज्ञाय प्रस्थितः । आवामपि तत्र तच्चेष्टितं द्रष्टुं प्रयावः । सर्वं भगवत्या अरविन्दमन्दिरायाः प्रसादात् भगवतो गन्धवहनन्दनस्य कारुण्याच्च शुभपरिणामं भवेदिति” ।

कासा-(सहर्षम्) सखे दिष्ट्या श्रृणुमः कुशलम् वत्सस्य । रे चार ! कुतस्ते विळम्बः सरणावेतावान् ?

चारः-तत्थ तत्थ विस्समिअ किंवदंतिं जाणंतो आअदोह्मि । (तत्र तत्र विश्रम्य किंवदन्तीं जानन्नागतोऽस्मि ) ।

82