[ भाष्यम् ]
स खल्वयं द्विविधः-उपायप्रत्ययो भवप्रत्ययश्च । तत्रोपायप्रत्ययो योगिनां भवति ।
[ सूत्रम् ]
भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ १९ ॥
[ भाष्यम् ]
विदेहानां देवानां भवप्रलत्ययः । ते हि स्वसंस्कारमात्रोप(यो)भोगेन चित्तेन कैवल्यपदमिवानुभवन्तः स्वसंस्कारविपाकं तथाजातीयकमतिवाहयन्ति । तथा प्रकृतिलयाः साधिकारे चेतसि प्रकृतिलीने कैवल्यपदमिवानुभवन्ति, यावन्न पुनरावर्ततेऽधिकारवशाच्चित्तम् इति ॥ १९ ||
[ विवरणम् ]
स खल्वयं द्विविधः । सः निर्बाजः समाधिः उपायप्रत्ययो भवप्रत्ययश्च ।। " उपायेन प्रतीयते प्राप्यत इत्युपायप्रत्ययो योगिनां भवति । यद्यपि विदेहा अपि योगिन एव । तथापि यमादियोगसाधनानुष्ठायिनोऽभिप्रेताः । तेषां श्रद्धावीर्याद्युपायलभ्यः समाधिः ॥
विदेहप्रकृतिलयानां तु जन्मनैव लभ्यः । तेहेि तनुतरप्रतिबन्धावशेषाः । स तु प्रतिबन्धावशेषस्तेषां सकृदासादितपुनर्जन्मनां समाधिव्याघाताय न पर्याप्नोति । स तु जन्मप्रतिलम्भमात्रनिमित्तम् । (त्वात्)ज्ञानवैराग्याद्यनुष्ठानकार्यत्वाद्विदेहप्रकृतिलयत्वस्य तदनुष्ठानस्तुत्यर्थं सूत्रम् । इदृशं हि तदनुष्ठानमाहात्म्यम् । यदुत सामर्थ्यादिवैकल्यादभीप्सितफलानवाप्तावपि महनीयंतरं विदेहप्रकृतिलयत्वं प्राप्यते ।
विदेह्रा नाम देवाः पुर्यष्टकशरीरोपबन्धाः । ते स्वसंस्कारमात्रोपभोगेन वैराग्याभ्यासाहितः संस्कारशेषस्तन्मात्रोपभोगेन चित्तेन कैवल्यमिहानुभवन्त इति । सत्वगुणविनिर्मोकात्तथाजातीयकं स्वसंस्कारपरिपाकं क्षपयन्ति ।
प्रकृतिलयाः--साधिकारे अपर्यवसिता[धि]कारे । यावद्धि न कृता गुणपुरुषान्तरख्यातिः, तावदपरिसमाप्ताधिकारमेव चित्तं तस्मिन् प्रकृतिलयापन्ने कैवल्यमिवानुभवन्तीति । पूर्ववत् । यावन्न पुनरावर्ततेऽधिकारवशात् विद्याकर्तव्यतावशात् तावदनुभवन्ति कैवल्यमिव ॥ १९ ॥