पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/102

पुटमेतत् सुपुष्टितम्
५२
पातञ्जलयोगसूत्रभाष्यविवरणे

[ सूत्रम् ]

तीव्रसंयोगानामासन्नः ।। २१ ।।

[ भाष्यम् ]

समाधिलाभः समाधिफलं च भवति इति ।। २१ ॥

[ सूत्रम् ]

मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥ २२ ॥

[ भाष्यम् ]

  मृदुतीव्रो मध्यतीव्रोऽधिमात्रतीव्र इति । ततोऽपि विशेषः तद्विशेषादपि, मृदुतीव्रसंवेगस्यासन्नः, ततो मध्यतीव्रसंवेगास्यासन्नतर:, तस्मादधिमात्रतीव्रसंवेगस्याधिमात्रोपायस्याप्यासन्नतमः समाधिलाभः समाधिफलं चेति ॥ २२ ।।

[ भाष्यम् ]

  किमेतस्मादेवासन्नतरः समाधिर्भवति, अथास्य लाभे भवत्यन्योऽपि कश्चिदुपायो न वा इति

[ सूत्रम् ]

ईश्वरप्रणिधानाद्वा ।। २३ ॥

[ विवरणम् ]

  तत्राधिमात्रोपायानां तीव्रसंवेगानामासन्नः समाधिलाभः समाधिफलं च ॥ २ १ ॥   तेषामपि मृदुमध्यतीव्रोपक्रमतया विशिष्यमाणत्वाततो[ऽपि]विशेषः साधनानुष्ठानसंस्कारस्य । तद्विशेषादप्युत्तमस्य समाधिलाभः प्रत्यासीदतितराम् ॥ एतदस्य सूत्रस्य प्रयोजनम्-योगसाधनानुष्ठानं प्रति योगिनः कथमुपबृंहितोत्साहा भवेयुरिति । यथा लोके द्रुततरं सीमान्तं परि[प्रति]धावतामेतत्फलं भवतीति तद्वत् | अथवा-मन्दमन्दतरोपक्रमाणामपि योगिनामभिमतफलावाप्तिप्रकाशनादनवसन्नचेतसः प्रवर्तेरन्निति । इतरथा तीव्रतरायासजनितभीतयोऽवसीदेयुरिति ॥ २२ ॥

  किमेतस्मादेवासन्नतरो भवति ? अथ (तस्य) अस्य लाभे भवत्य न्योऽपि कश्चिषुपायो न वेति । उपायान्तरमस्तीत्याह--ईश्वरप्रणिधानाद्वा । ईश्वरशब्दार्थमुत्तरत्र व्याख्यास्यति | प्रणिधानमिह व्याचष्टे-भक्तिविशेषा