पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/117

पुटमेतत् सुपुष्टितम्
६८
पातञ्जलयोगसूत्रभाष्यविवरणे


    चेत्-न-अशरीरत्वात् । सशरीराशरीरत्वांविरोध इति चेत्-न-मुक्तमुच्यमानैकात्मनोऽशरीरत्वसशरीरत्वदर्शनात् । तत्र भिन्नकालत्वादविरोध इति चेत्-न- अत्रापि भिक्षकालाभ्युपगमात् ।

    किं च---युगपदीश्वरत्वादेव द्वयसम्भवः । सकरणता अकरणताऽपि ईश्वरत्वादेव युक्ता । तथा च श्रुतयः- "अशरीरं शरीरेषु" इति । तथा "यः सर्वेषु भूतेषु तिष्ठन्2” इति । तथा ‘यः3 सर्वज्ञः सर्ववित्' इल्यादयः ॥

    श्रुतीनां विप्रतिषेधार्थवादीश्वराप्रल्यायकत्वम् इति चेत्-न-अनन्यशेषत्वात् । न हि कर्मशेषत्वे श्रुतिलिङ्गादीनामन्यतमदर्पि प्रमाणमस्ति ।

    स्वाध्यायवधिपरिग्रहाद्दर्शपूर्णमासादिशेष इति चेत्-न-ज्यातिष्टोमादिवद्विध्यन्तरस्य भावात् । यथैव ज्योतिष्टोमादीनां (प्रथमप्रं,पृथक्प्रकरणादिकारणादन्योन्यशेषशेषिभावो नास्ति । तथैव ‘मन्तव्यो निदिध्यासितव्यः'4 इत्यादिविषयत्वान्नाग्निहोित्रादिशेषत्वं युक्तम् ।

    फलाभाव इति चेत्-न-“सर्वाश्व5 लेकानाप्नोति सर्वाश्च कामान्यस्तमात्मानमनुविद्य विजानाति" इत्यादिफलमुद्दिश्य विधानात् ॥

    अथैवमप्युपासनाविधेशेषत्वात् स्तुतिरेवेति चेत्-नाल्यन्तमसता स्तुतिरस्ति । न हि "वायुर्वै क्षेपिष्ठा देवता" इति वायोरक्षेपिष्ठत्वम् । कचिदसताऽपि स्तुत्यदिसम्भव इति चेतू-न-अनुमानसिद्धस्येहीपदानात् ॥

    अथ सर्वेकार्यकरणयोगादीश्वरस्य सर्वप्राणिसुखदु:खादिसंबन्ध इति चेत्-न-निमित्तभेदात् । धर्मादिनिमित्तः संसारिणां शरीरादिसम्बन्धः।धर्मादिनिमि(क्तानां)क्तो दुःखादियोगः । नेश्वरस्य धर्मादयः । निरतिशयैश्वर्यादिहेतुस्वाच्छरीरादिकार्यकरणसंबन्धस्य । यथा ग्रहतदाविष्टयोः ॥

    अथ चक्षुरादिकरणत्वादस्मदादिवत् सर्वानुपलब्धरिति चेतू-न- सर्वविषयग्रहणसमर्थानां प्रतिबन्धकरणाभावात् । सर्वगतानां हि करणानां [अ]धर्मादिसंवरणेन स्वविषयसङ्कोचः क्रियते । यस्य पुनरावरणं प्रतिबन्धक[मं]- धर्मादि न विद्यते, तस्य तदभावादशेषस्वविषयग्रहणानि करणानीति न दुष्यति ॥


1. कठोपनिषत् - 2.21. 4. व्रू. उ. 2. 4. 5. 2. ब्रू. उ. 3. 7. 15. 5. छा.उ. 8. 7. 1. 3. मु. उ. 1. 1. 9.