पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/118

पुटमेतत् सुपुष्टितम्
६९
समाधिपादः प्रथमः

  अथ वा सर्वप्राणिकरणैः [ईश्वरः] पृथगात्मनः करणाभावेऽप्यावेशग्रह इव सर्वमनुभवति । न च प्राणिशून्यो विषयः कश्चिद्विद्यते, ‘यः1 पृथिव्यां तिष्ठन्’ ‘योऽप्सु तिष्ठन्’ इत्येवमादिश्रुतेरन्तर्यामिनान्न ईश्वरस्य सर्वेष्ववस्थितत्वश्रवणात् ॥

    अपि वा प्रकृष्टमेव स(र्व)त्त्वं नित्यानतिशायितशक्तिज्ञानेश्वरत्वधर्मकम्, सर्वगतत्वादाकाशवत् सर्वयोगि, सर्वार्थत्वात्सर्वविषयप्रकाशकम्, धर्माधर्मादिविप्रयोगादप्रतिबन्धशक्तिकं च इति अकायानिन्द्रियत्वपक्षेऽपीश्वरसर्वज्ञत्वसिद्धिः |

   चक्षुराद्यपेक्षमेव चित्तस्य रूपादिप्रतिलम्भसामर्थ्यमिति चेत्—न- ऐश्वर्यधर्माद्यभावाभ्यां परिहृतत्वात् ॥

    अपि च चक्षुग्राह्यस्यापि चक्षुषा अग्रहणं लोके दृश्यते । चक्षुर्ग्राह्यं सत् सर्वं तमः सन्निमीलितलेोचनैरपि स्वस्थान्तःकरणैरुपलम्यते । तदेव चान्धतमसं विष्फारितनयनैरप्यन्यगतचित्तैनैव गृह्यत । यथा गृह्यमाण एवाकाशे प्रकाशः ।

    अथापि प्रकाशाभावमात्रमेव तमे न वस्विति ब्रयात-तच न-अभावस्यवस्तुतिरोधानसामर्थ्याभावात् |

    अथ ग्रहणनिमित्तस्य प्रकाशस्याभावादेव घटाद्यग्रहणं, न वस्तुतिरोधायकं तम इति ब्रुवीत-न-चक्षुषः प्रकाशकत्वात् प्रकाशसाहायकापेक्षानुपपत्तिः । असति भिन्नजातीये वस्तुनि वस्तूनां तिरोधातृणि तत्र या च यावती च । मात्रा प्रकाशकत्वाच्चक्षुषा प्रकाश्येत । न हि प्रदीपः प्रदीपान्तरद्वैतीयकापेक्षः प्रकाशयति ॥

    कि चान्यत्-चक्षुषः प्रकाशान्तरसहायत्वापेक्षतायां च निशायामपि ताराधिपतिप्रकाशद्वितीयेन चक्षुषा दिवस इव रूपादग्रहणप्रसङ्गस्तिरोधानस्यासति निमिते

    कि चान्यत्-अभावश्चेत्तमः, चन्द्रभासु निशायां भा(भव)न्तीषु तमसा 'मन्देन न प्रवर्तितव्यम् । सर्वात्मनैव हि तेन विनशनीयम् । भासां भावात् । भासां तु वस्तुत्वान्मन्दत्वपाटवादिविशेषो घटते, न(भावस्य)अभावस्य निर्विशेषत्वात् ॥


1. शृं. उ. 3. 7. 3. 4.