पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/119

पुटमेतत् सुपुष्टितम्
७०
पातञ्जलयोगसूत्रभाष्यविवरणे


    किं च-सहायाभावाञ्चक्षुष उपलब्धिसामर्थ्याभावादग्रहणमिय्तेतदपि व्यभिचरति । यथा सत्यपि विद्युल्लताप्रकाशे तीव्रतरे विद्युल्लतविलासे च किं तद्दृष्टिर्नोपलभते । न हि विद्युतः सहायके दृष्टचकितत्वेनाग्रहणं विरोधाभावाद्युक्तम् ॥

   किञ्च - चिकित्साशास्त्रे छाया मधुरशीतलेल्युच्यते । न ह्यवस्तुनो मधुरशीतलत्वम् । तथा चाक्षिपति पथ्यत्वम् । नाभावस्य पथ्यापथ्यत्वं ब्रूयुः ॥

    प्रदीपाच्छायोपलब्धेश्च । अभावश्वेत्तमः, प्रदीपप्रभामण्डले प्रदीपाच्छाया कथं भवेत् । वस्तुत्वेऽपि विरोधादयुक्तमिति चेत्--न-विषसर्पयोरिव संभवात् । यथा प्राणवियोगकरमपि विषं पन्नगप्राणवियोगाय न पर्याप्नोति, तथा प्रदीपतच्छाययोरपि ।

    तस्माद्वस्तु तमः, प्रकर्षापकर्षवत्त्वात् , प्रभावत् । विरोधिद्रव्यापने यत्वाच्च, घटवत् । उपलब्धृव्यवधानकरत्वाच्च, भित्तिवदिति ।

    इतश्वेन्द्रियनिरपेक्षमप्यन्तःकरणमिन्द्रियविषयग्रहणाय समर्थन् । पिहितकर्णविवरस्य घोषोपलंभात् । न च पिहितकर्णसंपुटस्य श्रोत्रान्तरमनुमातुं शक्यम् । बधिरस्यापि पिहितश्रोत्रपुटस्य तदग्रहणात् ॥

    किञ्च-प्रतिज्ञाज्ञानेनापि रूपादिग्रहणमिन्द्रयनिरपेक्षं दृश्यते ।

    किञ्चान्यत्-स्मृतेश्चानुपपत्तिः स्यात् इन्द्रियनिरपेक्षस्य चित्तस्य सातिशयग्रहणसामर्थ्येऽपि । स्पष्टाश्च स्मृतयः स्वाप्ना रूपादिविषयाः ॥

    यदि चक्षुराद्यन्तःकरणाभ्यां समन्विताभ्यां रूपग्रहणं पूर्वमपि निरर्वर्तिष्यते, स्वप्नादावपि समुच्चिताभ्यामेव पर्यग्रहीष्यत । न चैवमस्ति । सुखादिग्रहणे स्वातन्त्र्यं चित्तस्य सर्वप्रसिद्धम् ॥

    तस्मादालोकस्थानीयानीन्द्रियाणि चित्तस्य , विषयग्रहणे स्वतन्त्रस्यैव . स्वतः । तदुक्तम् '1इन्द्रियप्रनाडिकया’ इति । तथा श्रुतिरपि-‘मनसा2 ह्येव पश्यति मनसा शृणोति’ इति ॥


1 पा. 1. सू. 7. भाष्ये। 2. बृ. उ. 1, 5. 3,