पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/120

पुटमेतत् सुपुष्टितम्
७१
समाधिपादः प्रथमः


 अयोच्येत—इन्द्रियाणामालेकापेक्षावत् अन्तःकरणमपीन्द्रियसाहायकापेक्षमेव आहकमिति-तक्ष—व्यभिचारात् । रात्रिञ्चराणा विभिन्नव्यालोकद्वैतीयकेन दिवस इव रूपग्रहणम् । सत्यपि प्रकाशे न रूपस्य ग्रहणमुलूकादिभिर्दिने ॥

 किञ्च-साधनापेक्षस्य विज्ञानसाधनादृतेऽपि तुलादौ । दर्शनमात्रेणैव सुवर्णादिपरिमाणज्ञानं दृश्यते ॥

 अथ चेद्ब्रूयादानर्थक्यं चक्षुरादीनामिति-स वक्तव्यः-तुलादिवदेवान्यत्रार्थवत्त्वमिन्द्रियाणामिति । यथैव तुलादिविषयवैमल्यप्रकर्षात् पुरुषस्य विनापि तुलादिसाधनेन दर्शनमात्रादेव कनकदिवस्तुपरिच्छेदकौशलं, तथैवान्तःकरणस्यानपेक्षितचक्षुरादिसाहायकस्यापि वैमल्यप्रकर्षाद्रूपादिग्रहणसामर्थ्यं न विहन्यते ॥

 नापि ह्मनेकनिर्वर्तनीयं क्रियाजातमेकेन नाभिनिर्वर्त्यते । दृश्यन्ते च बहुभिरुत्तोल्यमानं शिलादिकमद्वितीया हस्तिपुरुषादयः केचिदुत्तोलयन्तः ।

 तथैवेन्द्रियसहायेनान्येषामन्त:करणेन गृह्यमाणा रूपादयः परमेश्वरचित्तसत्वेनानाकलित(वकर्णित)चक्षुरादिपरिस्पन्देन केवलेनैव गृह्यन्ते । काष्ठागतत्वाद्वेमल्यशक्त्यैश्वर्यप्रकर्षस्य ॥

 संसारिणां ततो निकृष्टत्वादविद्यादिमलेनैश्वर्यशक्तिज्ञानादीनामिन्द्रियसहकारित्वापेक्षित्वमन्त:करणस्य। शिलादिसमुत्तोलन इव हीनबलानाम् ।

 ये(षां) पुनः संसारिण एव सन्त ईश्वरीभवन्ति बुद्धर्षभादयः, तेषां निरतिशयशक्तिज्ञानैश्वर्यनुपपत्तिः । लपरिच्छेद्यत्वात् । अभ्युपगच्छन्ति च तद्दशैनश्लेधनः कालपरिच्छेदनीयकै तेषाम् ।

 नास्मदीश्वरस्य कालपरिच्छेद्यता । तत्कलैस्तदाद्यकलैश्व बुद्धादिभिरपरिज्ञातैश्वर्यादिसातिशयत्वादिलिङ्गैरनुमेय एवासौ । नामुष्मिन् काल उत्पन्न उत्पद्यत उत्पत्स्यमान इति त्रिधा कैश्विदनुमीयते । निरतिशयत्वविरोधो हि तथा|दा|स्यात् ॥

 तस्मात् बुद्धादीनां सिद्ध्यपेक्षत्वात्, पूर्वबुद्धानां कालाधिक्यप्राप्तेरुत्तरकालबुद्धस्यापि न निरतिशयक्त्यैश्वर्यज्ञानत्वं विरुद्धम् । अथ तुल्यशक्तिज्ञानैश्चर्याणामेव तेषां समानराज्यराजानामिवासमानकालत्वमिति ब्रूयात्, तथापि बुद्धान्तरकालस्य व्याप्त्यभिलाषविघातान्निरतिशयैश्वर्याद्यभावः |