पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/122

पुटमेतत् सुपुष्टितम्
७३
समाधिपादः प्रथमः


    तदेतदुक्तं भवति । यदैवं सतामपि गुणानां सामान्यप्रतिपादनकृतक्षयत्वान्न प्रतिपादकमनुमानम्, किमङ्ग पुनरल्यन्तासम्भाव्यमानसक्षिधीनामनुमयधर्मविरुद्धानामशक्त्यज्ञानधर्माधर्मानैश्वर्यादीनां [न]तत्प्रल्यायकमिति ॥

    अत एव च विरुद्धप्रतिसाधनानुपपत्तिः । सर्वज्ञास्तित्वानुमानवत् प्रथमं तदभावप्रतिपादकानुमानाप्रवृत्तेः । न ह्यनुमानस्य परोक्त्युदीक्षाधर्मत्वमस्ति । न हि धूमदर्शनेनाग्न्यनुमाने वक्त्रन्तरोक्तिरुदीक्ष्यते |

    न च स्वयमेव सर्वज्ञास्तित्वं नास्तित्वं वा बुद्धि(प्रति)पूर्वमाशङ्क्यते । घटादिवत् सर्वज्ञसद्भावस्य स्वयमनभ्युपगमात् । न ह्यनिर्धारितशशिस्वरूपः शांशे विषाणमस्ति नास्तीति कश्चिदाशङ्कते |

    परवाक्यात् प्रतिपद्याशङ्कत इति चेत्-परेणापि कथमप्रसिद्धेश्वरसद्भावनाशङ्कितमिति वक्तव्यमू । अथ परस्य भ्रान्तिरित चेत्-न सामान्यानुपलम्मे भ्रान्तिकारणमस्ति । न हि शुक्तिकायां पिकभ्रमः कस्यचिदुपजायते । तस्मादाह-संज्ञादिविशेषप्रतिपत्तिरागमतः पर्यन्वेष्या इति । वेदेतिहासपुराणयोगधर्मशास्त्राद्यागमतः पर्यन्वेष्या ।

    तस्यात्मानुग्रहाभावेऽपि तत्यात्मार्थमवातव्याभावातू भूतानां चाविद्यापङ्कनिमग्रानां संसारसागरोत्तरणोपायप्लवोपदेश्यन्तरस्याभावात् तदनुग्रह: प्रयोजनम् । ज्ञानधर्मोपदेशेन येऽनन्यशरणास्तस्मिन् सर्वात्मना निवेदितात्मानस्तान् कल्पप्रलयमहाप्रलयेषु ईश्वरानुगृहीतागमज्ञानविशेषेष्वाचार्येषु प्रलीनेषु पुन:पुनर्जातकारुण्यामृतः सन् उद्धरिष्यामीति प्रवर्तत इति वाक्यशेषः ॥

    तथा चोक्तमादिविद्वानिति-आदौ विद्वान् आदिविद्वान् रजस्तमोभ्यामनभिभूतज्ञान इल्यर्थः । ज्ञानधर्मदि वा तत आदीयते इत्यादिः, आदिश्वासौ विद्वांश्च अदिविद्वान् निर्माणचित्तं संकल्पमात्रनिर्मितं योगिचित्तम् अवेशग्रहवदुपदेशनार्थम् अधिष्ठाय भगवान् परमर्षिः परमदर्शन इत्यर्थः । परमत्वं चागमतः । दर्शनार्थस्य वा गत्यर्थस्य वा धातोः ऋषेर्ग्रहणम् । परमर्षिरीश्वर एव कपिलनारायणादिसंज्ञ: आसुरये प्रोवाचेति ॥

    तस्मात् प्रधानपुरुषव्यतिरिक्तः सर्व्वप्राणिभावकर्मफलपरिस्फुरणज्ञानात्तदनुग्रहकरिणम् ईश्वरः सिद्धः । स प्रकृष्टसत्त्वधनोपादान ईश्वरः कथं कर्ता ? कथं चानुगृह्णाति ? इत्येवमादि न चोदयितव्यम् । अगमतः पुर्यन्वेष्या इत्युक्तत्वात् । अंनुमानस्य च तद्विषयस्यानुपपत्तिः विशेषसंबन्धाग्रहणादिति ॥ २५ ॥