पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/124

पुटमेतत् सुपुष्टितम्



समाधिपादः प्रथमः

 अथाप्यभिसन्दधीथाः-प्रधानावस्थमेवेश्वरसत्त्वमिति--तदनुपपन्नम्-- ज्ञानानुपपतेः

 अथापि प्रतिपद्येथाः-सत्कार्याभ्युपगमाद्वीजफलवल्लरीकुसुमादिवज्ज्ञानादीनां प्रधानावस्था यत्सत्त्वमेवेति--तच्च न साधु-व्यवहारयोग्यत्वात् । सर्वेषां च तथा सत्यनवच्छेद्यत्वं ज्ञानादिसत्तामात्रसम्बन्धविशेषात् प्राप्नुयात्  |

 अथापि ब्रुवीथाः-व्यक्तत्वे सत्यपि कार्याणां कस्यचित् परिच्छेद्यत्वं कालीनं कस्यचिन्नेति--तच्च न-न्यायविरोधात् |

 अथापि प्रत्यवतिष्ठेथाः , ईश्वरसत्वस्य कालापरिच्छेद्यत्वमागमसिद्धमिति— तच्च न- अवद्योतकत्वादागमस्य ||

 अथाप्याचक्षीथाः---विद्यमानस्यैव कालापरिच्छेद्यत्वस्याज्ञातस्यावद्योतक अगम इति--तच्चापि न -निरोधादिसमनुष्ठाननिमित्तत्वात् काला(ज)वच्छेद्यो वैमल्यादनवच्छेद्यश्चेतेि विरुद्धं स्यात् |

 अत्रोच्यते-ईश्वरसत्ववैमल्यप्रकर्षापेक्षत्वात् कालानवच्छेद्यत्वस्यादोषः|

  यथा अन्येषां गुरूणां योगधर्मदिसमनुष्ठाननिमित्तत्वात् कालानवच्छेद्यो वैमल्यप्रकर्षः, तथा न भगवतः ! कथम् ? सर्वदाऽत्यन्ततिरोभूतरजस्तमस्त्वादनपेक्षितधर्मादिनिमित्तं सकलार्थावद्योतकरं कालानवच्छेद्यं सत्त्वस्वरूपवद्भगवत्सत्त्वे ज्ञानम्।

 तथा तत्कार्यमयुत्कर्ष: कालेन नावच्छिद्यते । यथा चाग्रेरुष्णप्रकाशावग्नौ कालानवच्छोद्यौ, तथा भगवत्सत्वस्य वैमल्यज्ञानप्रकर्षास्तत्सत्वे कालानवच्छेद्यता मुपयान्तीत्येतदपेक्षयाभिहितं यत्रावच्छेदार्थ: काली नोपावर्तत इति । न त्वकार्यापेक्षया ह्युच्यते{|

  गुरुत्वं हि नावाधमत् । तदेवाह--यथाऽस्य सर्गस्यादौ ज्ञानवैमल्यप्रकर्षगत्या सिद्धः सर्गादिजन्मनामनुमेयतया सिद्धः अगमतश्चाज्ञायि, तथाऽतिक्रान्तसगदिष्वपि तत्कालजन्मनां ततः प्राक्तनानामपि सिद्धः । तथा भविष्यत्कालेऽप्यनुमानागमाभ्यामवगम्यते ।

 अस्य च सूत्रस्येदं प्रयोजनम्---यथा दृष्टा गुरवो ज्ञानधर्माद्युपदेशित्वादनन्यशरणैरनवरतमुपास्यन्ते, तथा भगवानयमपि सर्वगुरूणामपि गुरुत्वात्ततोऽपि विशेषेण नारायणादिनामा(दीनाम)नन्यचेतोभिः स्वहृदयेनानिशं धारयितव्य इति ॥