पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/126

पुटमेतत् सुपुष्टितम्
७७
समाधिपादः प्रथमः



[ भाष्यम् ]

 किमस्य सङ्केतकृतं वाच्यवाचकत्वम्? अथ प्रदीपप्रकाशवदवस्थितम् ? इति ।

 स्थितोऽस्य वाच्यस्य वाचकेन सह सम्बन्धः । सङ्केतस्त्वीश्वरस्य स्थितमेवार्थमभिनयति । यथा-अवस्थितः पितापुत्रयोः सम्बन्धः सङ्केतेनावद्योत्यते 'अयमस्य पिता' 'अयमस्य पुत्रः' इति ।

 [ विवरणम् ]

  तेन हि मनसि सततं प्रणिधायमानः प्रसीदति । तथा चानेकशः श्रुतयः-‘ॐ खं 1ब्रह्म' '2ओमिति ब्रह्म' इत्यादयः । स्मृतयश्च ‘ॐ 3 तत्सत्’ इति । ‘ॐ 4विश्वं विष्णुः' इत्यादयः । ऑशब्दस्य कृदन्तं यन्मान्तमित्यव्ययत्वाद्विभक्तिनिवृत्तिः ।

 किमस्य सङ्केतकृतं वाच्यवाचकत्वं? अथ प्रदीपप्रकाशवदवस्थितमिति । किं चातः ? । यदि तेन भगवता अन्यैर्वा संव्यवहारार्थमस्य नामेदमस्त्विति संकेतितम्, ततोऽस्य प्रागोंशब्दावाच्यत्वादोशब्देन वा प्रणिधातारः प्राण्यधिषत, अन्येन वा नामान्तरेणाधीतवन्तस्तथेदानीमप्यस्तु, किमोङ्कारावशेषवचनेन । अथापि प्रदीपप्रकाशवदवस्थितं, तथाऽपि प्रथमश्रवणेऽपीश्वर उपलभ्येत यथा प्रकाशेन सविता ॥

 किं च-सङ्केतोऽप्यनर्थकः स्थितसम्बन्धत्वात् । अथापूर्वं सङ्केत्येत, पूर्वोक्तदोषप्रसङ्ग इति मन्यते ॥

 अत्रोच्यते-स्थितोऽस्य वाच्यस्य वाचकेन सम्बन्धो यदि नित्यः शब्दो यदि वा अनित्यः, सङ्केतस्तु तमेव स्थितं सम्बन्धमवज्वलयति ॥

 ननु चोक्तं-स्थितश्चेत् प्रथमश्रवणेऽपि तं प्रतीयुरिति । उच्यते--न हि प्रल्याय्यप्रल्यायकसम्बन्धः शब्दार्थयेोः स्थितोऽपि सन्निन्द्रियेण गृह्यते । यथेन्द्रियार्थयोः । अप्रत्यक्षे हि वाच्यवाचकशक्ती ॥

 ततश्च येनोच्यते शब्दादर्थोऽनुमेय इति-तदसत् । सम्बन्धाग्रहणात् । परप्रयोगव्यङ्ग्यत्वाच्च सम्बन्धस्य । न ह्यनुमानं परप्रयोगमपेक्षते ॥


1.बृ. उ. 5. 1.1 3. भ. गी. 17. 23. 2.तै। उ। 1. 8. 1. 4. विष्णुसहस्रनामस्तोत्रम् ।