पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/128

पुटमेतत् सुपुष्टितम्

समाधिपादः प्रथमः ७९ [ भाष्यम् }

विज्ञातवाच्यवाचकत्वस्य योगिनः--

[ सूत्रम् ] तज्जपस्तदर्थभावनम् ॥ २८ ॥ [ भाष्यम् ]

प्रणवस्य जपः, प्रणवाभिधेयस्य चेश्वरस्य भावनम् | तदस्य योगिनः प्रणवं जपतः प्रणवार्थं च भावयतः चित्तमेकाग्रं सम्पद्यते । तथा चोक्तम्

“ स्वाध्यायाद्योगमासीत योगात् स्वाध्यायमामनेत् । स्वाध्याययोगसम्पत्त्या परमात्मा प्रकाशते ॥ " इति | २८ ॥

किञ्चास्य भवति-

{ विवरणम् }

वाच्यवाचकयोरस्थितसंबन्धत्वे तु प्रणवरूपेणाभिमुखीभवतीश्वर इति नावकल्पते । न हि पाच्यपाचकसंबन्धे न च स्थिते पाचकाग्न्युपादानं पाकार्थं कल्पते । स्थिते तु वाच्यवाचकसंबन्धे भगवदाराधनसाधनस्य प्रणवस्योपादानमवकल्पत इति तत्प्रतिपादनार्थं सर्वं भाष्यम् ॥ २७ ॥

एवमवगतवाच्यवाचकसंबन्धस्य योगिनः परमेश्वरप्रसादनं कथं क्रियत इति तदर्थमाह-तज्जपस्तदर्थभावनम् तस्येश्वरवाचकस्य प्रणवस्यार्धचतुर्मात्रस्य त्रिमात्रस्य वा जपः मनसोपांशु वा आवर्तनं जपः, तदर्थस्य चेश्वरस्य प्रणवेन वाचकेन समर्पितस्य बुद्धौ समारोपितस्य भावनमभिध्यानं तदर्थभावनम्। कर्तव्यमिति वाक्यशेषः ॥ । तदेवमुभयं कुर्वतो योगिनः चित्तमेकाग्रं सम्पद्यते । एकाग्रसम्पत्तिं च तदाराधनफलं दर्शयति--तथा चोक्तम्-स्वाध्यायाद्योगमा(तिष्टेत्)सीत स्वाध्यायात् प्रणवजपादीश्वरं प्रत्यवनतचित्तः सन् योगमासीत । तदर्थमीश्वरं ध्यायेत् ।। (रस्ययत्)तदर्थध्यानाच्चाप्रचलितमनाः स्वाध्यायं प्रणवमामनेत् मनसाऽभिजपेत् । मानसोऽभिजपः प्रशस्यते ध्यानस्यासन्नतरत्वात् । मा विषयप्रवणचित्तोः भूदिति । एवं स्वाध्याययोगसम्पत्या तद्विरोधिना प्रत्ययान्तरेणानभिघातः स्वाध्याययोगसम्पत्तिः । तया च प्रणवजपपरमेश्वरध्यानसम्पत्या पर आत्मा परमेष्ठी प्रकाशते योगिन इति ॥ २८ ॥