पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/130

पुटमेतत् सुपुष्टितम्

समाधिपादः प्रथमः पृष्ठम् ८१

समाधिपादः प्रथमः [ सूत्रम् ] व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः ॥ ३० ॥

[ भाष्यम् ] नवान्तरायाश्चित्तस्य विक्षेपाः । सहैते चित्तवृत्तिभिर्भवन्ति । एतेषामभावे न भवन्ति पूर्वोक्ताश्चित्तवृत्तयः । व्याधिः धातुरसकरणवैषम्यम् । स्त्यानम् अकर्मण्यता चित्तस्य । संशयः उभयकोटिस्पृक् विज्ञानम् ‘स्यादिदमेवं नैवं स्यात्’ इति ! प्रमादः समाधिसाधनानामभावनम् । आलस्यं कायस्य चित्तस्य च गुरुत्वादप्रवृत्तिः । अविरतिः चित्तस्य विषयसम्प्रयोगात्मा गर्धः ।

[ विवरणम् ] किञ्चास्य भवति ? ये तावदन्तराया व्याधिप्रभृतयो वक्ष्यमाणास्तेऽपि चास्येश्वरप्रणिधानान्न भवन्ति ॥ २९ ॥

तत्र के तेऽन्तरायाः ? कियन्तो वेत्याह -- व्याधिस्त्यानेत्यादि । संख्यया तावन्नवान्तरायाः ! स्वरूपेण च व्याध्यादयः । व्याधिर्धातुरसकरणवैषम्यम् । धातवो वातपित्तश्लेष्माणस्तेषां विषमभावो वैषम्यं, तच्च वातपित्तश्लेष्मभूयिष्ठद्रव्योपयोगादिभ्यो जायते । स्वयोन्यागमे हि धातूनां वृद्धिमाचक्षते ॥

रस उपयुक्ताहारस्य परिणामविशेषः । स च सप्तधा, रसकार्यवाद्रस इत्युच्यते रसलोहितमेदोमांसास्थिमज्जाशुक्लाख्यः । तस्य वैषम्यं वृद्धिक्षयैौ । करणवैषम्यमन्धबधिरत्वादि ॥

स्त्यानमकर्मण्यता चित्तस्य स्तिमितम् ! संशयः स्थाणुर्वा पुरुषो वेति विरुद्धोभयकोटिस्पृक् प्रत्यय: ॥

प्रमादः समाधिसाधनानामभावनमशीलनम् । आलस्यं कायस्य चित्तस्य च गुरुत्वादप्रवर्तनम् । अविरतिश्चित्तस्य विषयसम्प्रयोगस्वभावो विषयसम्प्रयोगनिमेित्तो वा गर्द्धः अभिकाङ्क्षा तृष्णा ॥