पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/132

पुटमेतत् सुपुष्टितम्

समाधिपादः प्रथमः पृष्ठम् ८३

समाधिपादः प्रथमः [ भाष्यम् | क्षोभः । यदङ्गान्येजयति कम्पयति तदङ्गमेजयत्वम् । प्राणो यद्बाह्यं वायुमाचामति स श्वासः । यत्कौष्ठ्यं वायुं निस्सारयति स प्रश्वासः । एते विक्षेपसहभुवः । विक्षिप्तचित्तस्यैते भवन्ति । समाहितचित्तस्यैते न भवन्ति । अथैते विक्षेपाः समाधिप्रतिपक्षाः ताभ्यामेवाभ्यासवैराग्याभ्यां निरोद्धव्याः ॥ ३१ ॥

तत्राभ्यासस्य विषयमुपसंहरन् इदमाह--

[ सूत्रम् ]

तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ ३२ ॥

[ भाष्यम् ]

विक्षेपप्रतिषेधार्थमेकतत्त्वालम्बनं चित्तमभ्यसेत् ।

[ विवरणम् ]  दौर्मनस्यमिच्छाविघाताच्चेतसः क्षोभः आकुलीभावः सञ्चलनम् । यदङ्गान्येजयति कम्पयति तदङ्गमेजयत्वम् । (न तच्च प्राणायामाद्यथाभ्यासप्रभवश्वासावपि तथा समुद्भवः) यद्बाह्यं वायुमाचामति बाह्यवायोराकर्षणबाहुलकं[ल्यम्]निष्क्रमणमन्दता च श्वासः । तद्विपरीतव्यापारः प्रश्वासः-- यत्कौष्ठ्यं वायुं निस्सारयति । एते विक्षेपसहभुव: विक्षेपैः सहैते विक्षिप्तचित्तस्यैव भवन्तीति विक्षेपसहभुवः । समाहितचित्तस्यैते न भवन्तीति यावत् । यावद्यावच्चेतः समाधीयते तावत्तावन्न भवन्तीति । ताभ्यामेवाभ्यासवैराग्याभ्यामुपशमयितव्याः । नान्यं प्रतिपक्षमपेक्षन्ते ॥

 अभ्यासवैराग्ये मुक्त्वा न हि परमेश्वरप्रणिधायिन्यः[भ्यः]प्रभावो भवतीति गम्यते । 1'अन्तरायाभावश्च' इत्युक्या प्राक्तनादपीश्वरप्रणिधानादन्तराया निरुध्यन्ते ॥ ३१ ॥

 अभ्यासवैराग्याभ्यां तन्निरोध इत्युक्तम् । तत्र वैराग्यविषयः प्रतिपादितः । इदानीमभ्यासस्य विषयमुपसंहरन्नाह--तत्प्रतिषेधार्थमेकतत्त्वाभ्यास इति । तेषां विक्षेपाणां प्रतिषेधाय तत्प्रतिषेधार्थम् । एकं तत्त्वमेकतत्त्वम् । तच्चैकं तत्त्वं वस्तुत्वान्नाभ्यसितुं शक्यम् । न ह्यात्मादिवस्तूनां


1. यो. सू. पा. 1. सू. 29