पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/133

पुटमेतत् सुपुष्टितम्
८४
पातञ्जलयोगसूत्रभाष्यविवरणे

पातञ्जलयोगसूत्रभाष्यविवरणे [ भाष्यम् ]

 यस्य तु प्रत्यर्थनियतं प्रत्ययमात्रं क्षणिकं च चित्तं तस्य सर्वमेव चित्तमेकाग्रम् । नास्त्येव विक्षिप्तम् ।

 यदि पुनरिदं सर्वतः प्रत्याहृत्य एकस्मिन्नर्थे समाधीयते, तदा भवत्येकाग्रमित्यतो न प्रत्यर्थनियतम् ।

[ विवरणम् ]

 शीलनं वक्तुं शक्यते । स्वमाहाभाग्यावस्थितानि हि तानि न चित्तमात्राणि । वस्तूनां तु चित्ततन्त्रतां प्रतिषेधयिष्यति--'न चैकचित्ततन्त्रं वस्तु’ इत्यादिना । तस्मादेतदाशङ्कमानो भाष्यकार आह--एकतत्त्वालम्बनं चित्तमभ्यसेदिति । सूत्रेऽप्येकतत्त्वाभ्यास इति समासादयमर्थ उपात्त एव ॥

 ननु नैकं चित्तमवस्थितमस्ति, यस्यैकतत्त्वावलम्बनः प्रत्यय आपद्येत । प्रत्यया एव चित्तम्, ते च प्रत्यर्थं नियताः क्षणप्रणाशिनश्च प्रत्यात्मसंवेद्यं च प्रत्ययानामनवस्थितत्वम् । नापि प्रत्ययव्यतिरेकेणावस्थितं प्रत्ययेि चित्तं नामोपलभ्यते । योऽप्यहमेवाहमिति प्रत्ययः सोऽपि समानसन्ततिपतितत्त्वात्सादृश्यनिबन्धनः । यथा स एव प्रदीपः त एव केशा इति ।

 तदप्याह--प्रत्यहं[प्रति]प्रत्ययं प्रत्ययी भिन्नः, प्रत्ययेभ्योऽत्यन्तपरस्परभिन्नेभ्योऽनन्यत्वात् । एकैकप्रत्ययस्वरूपसद्वर्तमानाहंप्रत्ययविषयः प्रत्ययी भूतभविष्यत्कालाहंप्रत्ययविषयात् प्रत्ययिनो भिन्नः, भिन्नप्रत्ययविषयत्वात् , घटात् (घ) पट इव । यदि वा--भिन्नकालत्वात्, विनष्टभविष्यद्घटाभ्यां वर्तमानो घटः [इव] । अहंप्रत्यया वा सर्वे भिन्नालम्बनाः, प्रत्ययत्वात्, घटपटादिविषयप्रत्ययवदिति ॥

 अत्राभिधीयते-स्वशास्त्रविरोधोऽपि स्यादेवं ब्रुवत इत्याह--क्षणिकं च यस्य चित्तं तस्य सर्वमेव चित्तम् एकाग्रम् विक्षेपाभावादेव नास्त्येव विक्षिप्तमिति सर्वचितैकाग्रत्वाद्विक्षेपप्राप्त्यभावाद्विक्षेपप्रतिषेधाय शास्रोपदेशोऽनर्थकः स्यात् । अस्ति च चित्तपरिकर्मार्थं मैत्र्याद्युपदेशः । स च विरुध्येत इत्थं धर्मं चित्तमभ्युपगच्छतः ॥

 ननु च तवापि वृत्तिवृत्तिमतोरभेदादनुपपन्नो विक्षेप इति तत्प्रतिषेधोपदेशानर्थक्यम्---नैष दोषः---वृत्तवृत्तिमत्वाभ्युपगमात् ॥