पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/139

पुटमेतत् सुपुष्टितम्
९०
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 न च प्रत्यक्षस्य माहात्म्यं प्रमाणान्तरेणाभिभूयते । प्रमाणान्तरं च प्रत्यक्षबलेनैव व्यवहारं लभते।

[ विवरणम् ]

  अथ प्रत्येता स्मर्तेति शब्दभेदात् प्रत्ययभेदाच्चाहम्प्रत्ययस्य भिन्नविषयत्वमनुमायिष्यत इति चेदत अह‌--न हि प्रत्यक्षस्य माहात्म्यं प्रामाण्यं चक्षुषो रूप इवानुमानादभिभूयते बाध्यते ॥

 किं च--प्रत्यक्षं प्रमाणमयमहंप्रत्ययो न तत् स्मृतिप्रत्ययानामेकस्मिन् कर्तरि सामान्येन वर्तमानः । स चेत् प्रत्यक्षप्रमाणभूतोऽनुमानेनाभिभूयेत, तदानीमनुमानस्यापि प्रमाणत्वं हीयेत । तन्मूलत्वादनुमानस्य । तदेतदाह-- प्रमाणान्तरं च प्रत्यक्षबलेनैव प्रामाण्यव्यवहारं लभत इति । तेन प्रत्यक्षविरोधेन अनुमानविरोधेन च प्रतिवादि(पादित)प्रमाणप्रतिज्ञादोषो व्याख्यतः ॥

 अतीतानागतप्रत्ययसंस्काराधारादनन्यः इदानीन्तनप्रत्ययसंस्काराधारः, एकसन्तानसंबन्धित्वे सति बोधात्मकत्वात् , आत्मस्वरूपाद्यथा ॥

 भूतभविष्यत्प्रत्ययसंस्काराश्रयः वर्तमानप्रत्ययसैस्काराश्रयादनन्यः, एकसन्तानसंबन्धे सति बोधात्मकत्वात्, आत्मन इव स्वरूपात् ॥

 वर्तमानाहंप्रत्ययी भूतभविष्यत्प्रत्ययिभ्यामभिन्नः, एकसन्तानयोगे सति प्रत्ययित्वात्, यथा स्वरूपात् ॥

 भूतभविष्यत्प्रत्ययिभ्यामनन्यो वर्तमानः प्रत्ययः, एकसन्तानसंबन्धे सतेि बोधात्मकत्वातू, आत्मरागस्वरूपादिभ्य इव ॥

 भूतभविष्यत्प्रत्ययेभ्यो नान्यो वर्तमानः प्रत्ययी, एकसन्तानसंबन्धित्वे सति बोधात्मकत्वात् , आत्मनो यथा स्वरूपात् ॥

 भिन्नसन्ततिषु परस्परस्मृतिप्रतिसन्धानाद्यनुपलम्भादेकसन्तानेषु च स्मृत्यादिदर्शनादेव सिद्धमेककर्तृत्वम् । तथा सर्वप्रमाणेभ्यो गरीयसा प्रत्यक्षेण प्रमाणेन । तत्र न किंचिदनुमानेन साध्यम्। न हि कश्चित् करतललाञ्छनदिदृक्षया दर्पणमादत्ते। तथाऽपि वैनाशिकोपरचितानुमानापशदमसहमानाः केचित् प्रत्यनु-