पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/141

पुटमेतत् सुपुष्टितम्
९२
पातञ्जलयोगसूत्रभाष्यविवरणे

[सूत्रम् ]

प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ ३४ ॥

[ भाष्यम् ]

 कौष्ठ्यस्य वायोः नासिकापुटाभ्यां प्रयत्नाविशेषात् वमनं प्रच्छर्दनम् । विधारणं प्राणायामः । ताभ्यां वा मनसः स्थितिं सम्पादयेत् ॥ ३४ ॥

[सूत्रम् ]

 विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ॥ ३५ ॥

[ विवरणम् ]

 तत्रोपेक्षाया अक्रियारूपत्वाद्धर्माहेतुत्वे सति किमर्थमिहोपादानम् ? उच्यते--उपेक्षानुपादाने चापुण्यशीलेष्वपि चित्तं व्यापारं यायात् । ततश्च तद्व्यापारोपधानकालुष्यान्मैत्र्यादिभावनाया न योग्यं भवति । अपुण्यशीलनिमित्तनैमित्तिकाकारव्यापारादधर्मों वा मा संजनिष्टेति चित्तस्थितिरेवोपेक्षेति तस्या उपादानम् । चित्तस्थितिश्चेह समीहिता ॥

 तस्मादित्थं समाहितचित्तस्य मैत्रीकरुणाद्येकतत्त्वालम्बनं चित्तं शीलयतः प्रागभिहिता अन्तराया न जनिष्यन्ते ॥ ३३ ॥

 प्रच्छर्दनविधारणाभ्यां वा प्राणस्य । वाशब्दो मैत्र्यादिभावनोपायान्तर- विकल्पार्थः । मैत्र्यादिभावनाद्युपायानामन्यतमेन येन केनचित् चित्तस्थितिः सम्पादनीयेति प्रकरणार्थः । अनेकोपायप्रदर्शनं कस्यचित् क्वचित् सुकरताभिप्रायेण । प्रच्छर्दनविधारणाभ्यां व्यस्ताभ्यां समस्ताभ्यां वा |प्रच्छर्दनम् कौष्ठ्यस्य वायोरातमितोरुद्वमनं नासिकाभ्याम्, न मुखेन । विधारणं प्राणायाम आतमितेरेव । यद्यपि प्रच्छर्दनेनापि प्राणः आयम्यते, तथापि बहिर्वृत्तिर्न निरुध्यत इति विधारणं प्राणायाम इति विशेष्यते ॥ ३४ ॥

{{gap}]विषयवती वा प्रवृत्तिरुत्पन्ना स्थितिनिबन्धिनी । चित्तस्येति वाक्यशेषः । विषया गन्धादयो यस्या योगप्रवृत्तेर्गन्धादिसंवेदनलक्षणाया आलम्बनीभूताः, सा विषयवतीत्युच्यते ॥

{{gap}]प्रवृत्तिर्नाम योगिनो योगमभ्यस्यतः अभिमुखीभावं प्रतिपद्यमानस्य योगस्य यः प्रथमोऽभिमुखीभावः प्रत्ययकरणो योगानुष्ठानं प्रत्युत्साह-