पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/143

पुटमेतत् सुपुष्टितम्
९४
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 तत्र तदुपदिष्टार्थैकदेशप्रत्यक्षत्वे सति सर्वं सूक्ष्मविषयमपि आ अपवर्गात् श्रद्धीयते । एतदर्थमेवेदं चित्तपरिकर्म निर्देिश्यते । अनियतासु वृत्तिषु, तद्विषयायां वशीकारसंज्ञायामुपजातायां समर्थं स्यात् तस्य तस्यार्थस्य प्रत्यक्षीकरणायेति ।

 तथा च सति श्रद्धवीर्यस्मृतिसमाधयोऽस्याप्रतिबन्धेन भविष्यन्तीति ॥ ३५ ।।

[सुत्रम् ]

 विशोका वा ज्योतिष्मती ॥ ३६ ॥

[ विवरणम् ]

 तत्र शास्त्राद्युपदिष्टार्थैकदेशप्रत्यक्षत्वे सति सर्वं सूक्ष्मविषयमपि आ अपवर्गाच्छ्रद्धीयते । एतदर्थमेवेदं चित्तपरिकर्म यदेतत् 'मैत्रीकरुणा' इत्यादिना ‘परमाणुपरममहत्त्वान्तोऽस्य वशीकारः' इत्येवमन्तेन प्रकरणेन यमनियमासनविशिष्टस्य चित्तपरिकर्मोपदिश्यते ॥

 तदेतदुक्तं भवति--एतत्प्रकरणोपदिष्टानामुपायानामन्यतमानुष्ठानात् प्रत्यक्षीकृतैकदेशतया विधूत(पिध्मात)संशयं तु आ अपवर्गात् दृढावस्थितश्रद्धानादि प्रशान्तबहिर्वृत्ति उपस्थितवशीकारसंज्ञावैराग्यं तस्य तस्य तृतीयपादोपदिष्टपरिणामत्रयादेरर्थस्य प्रत्यक्षीकरणाय समर्थं स्यात् ज्ञानविभूत्यादिप्राप्यर्थमिति । ततश्चैवमर्थं चित्तपरिकर्मोपदिश्यत इति प्रकरणार्थः । तथा च भाष्यकारः प्रदर्शितवान्--'एतदर्थमेवेदं चित्तपरिकर्म’ इत्येवमादिना ॥ ३५ ॥

 विशोका वा ज्योतिष्मती प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनीति प्रकृतमभिसंबध्यते । ज्योतिर्यस्यां विद्यते प्रवृत्तौ सा ज्योतिष्मती । सा च शोकं व्यपगमयतीति विशोका नाम ॥

 सा च कथमुपजायत इत्याह--हृदयपुण्डरीके धारयतो बुद्धिसंवि- द्भवति स्वरूपसंवेदनम् । बुद्धिसत्त्वं हि किंरूपमित्याह-बुद्धिसत्त्वं हि प्रभास्वरं प्रभासनशीलमाकाशकल्पं व्यापि । यत्र यस्मिन् बुद्धिसत्त्वे ॥