पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/144

पुटमेतत् सुपुष्टितम्
९५
समाधिपादः प्रथमः

[ भाष्यम् ]

 प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनीत्यनुवर्तते । हृदयपुण्डरीके धारयतो या बुद्धिसंवित्, बुद्धिसत्त्वं हि प्रभास्वरमाकाशकल्पम्, तत्र स्थितिवैशारद्यात् प्रवृत्तिः सूर्येन्दुग्रहमणिप्रभारूपाकारेण विकल्पते । तथा अस्मितायां समापन्नं चित्तं निस्तरङ्गमहोदधिकल्पं शान्तमनन्तमस्मितामात्रं भवति ।

 यत्रेदमुत्तम्-"1तमणुमात्रमात्मानमनुविद्यास्मीत्येवं तावत्संजानीते” इति । एषा द्वयी विशोका विषयती, अस्मितामात्रा च प्रवृत्तिज्योतिष्मतीत्युच्यते । यया योगिनश्चित्तं स्थितिपदं लभत इति ॥ ३६ ॥

[सूत्रम् ]

 वतरागविषयं व चित्तम् ॥ ३७ ॥

[ विवरणम् ]

 स्थितिवैषम्यादिति । बुद्धिसस्त्रात्मतासाम्यानापत्तेरिति । हृदयपुण्डरीक एव धारयत: प्रवृत्तिर्ज्योतिष्मती सूर्येन्दुमणिप्रभारूपाकारेण विकल्पते । तथा चास्मितायाम् अहङ्कारे समापन्नं स्यात् बुद्धिसत्वं स्वरूपेण साम्यापत्ते- र्निस्तरङ्गमहोदधिकल्पं शान्तमनन्तमस्मितामात्रं भवति ॥

{{gap}यत्रेदमुक्तं यत्रास्मितासमापत्तौ । तं एतं प्रकृतमस्मितात्मानमहङ्कारम् अणुं सूक्ष्मम् आत्मानमनुविद्य प्राप्य अस्मीत्येवंतावत्संजानीत इति । यादृशमा- लम्बनस्वरूपं तावन्मात्रं सञ्जानीते । अहङ्कारस्वरूपेणैव तदानुरूप्यादवच्छिद्यते, स्फटिकमणिरिवोपधानरूपेण । एवं द्वयी विशोका प्रवृत्तिर्विषयवती चास्मिता- मात्रा च । तत्र गन्धसंविदादिरास्मितामात्रान्ता सर्वा विशेकैव । ज्येतिष्मती पुनर्गन्धसंविदादिप्रवृत्तिपञ्चतयादन्यत्र । विषयवती त्वस्मितामात्रात् प्रागेवेत्येवं विषयविभागः । यया विशोकया ज्योतिष्मत्या योगिनश्चित्तं स्थितिपदं लभते ॥ ३६ ॥

 वितरगविषयं वा चित्तं वीतो रागो यस्मात् प्रत्ययात् स वीतरागः रागशून्य इत्यर्थः । स एष विषय आलम्बनं यस्य चित्तस्य तद्वीतरागविषयम् । वीतरागश्च प्रत्ययः प्रसिद्धो लोके । रागिणोऽपि हि पुरुषस्य रागकारणेऽपि विषये, यः स्त्री‌षु मात्रादिषु । स एव प्रत्ययः [तमेव प्रल्ययं] वीतरागः [गं] अलम्बनत्वे-


1. पञ्चशिखाचार्येण