[ भाष्यम् ]
वीतरागाचित्तालम्बनोपरक्तं वा योगिनश्चित्तं स्थितिपदं लभत इति ॥ ३७ ॥
[सूत्रम् ]
स्वप्ननिद्राज्ञानालम्बनं वा ॥ ३८ ॥
[ भाष्यम् ]
स्वप्नज्ञानालभ्बनं वा निद्राज्ञानालम्बनं वा तदाकारं योगिनश्चित्तं स्थितिपदं लभत इति ॥ ३८ ॥
[सुत्रम्]
यथाऽभिमतध्यानाद्वा ॥ ३९ ॥
[ भाष्यम्]
यदेवाभिमतं तदेव ध्यायेत् । तत्र लब्धस्थितिकमन्यत्रापि स्थितिपदं लभत इति ॥ ३९ ॥
[विवरणम्]
नाभ्यस्येत् ; न तु तस्य यो विषयः आलम्बनम् । विषयाणां खलत्वात् । तत् वीतरागप्रत्ययालम्बनोपरक्तं चित्तं तद्वदेव वीतरागं प्रसन्नतरं स्थितिपदं लभते । रागादिखलीकृतं हि कृतखलीनमिव तुरङ्गमाननं प्रचलति ॥ ३७ ॥
स्वप्ननिद्राज्ञानालम्बनं वा । स्वप्नज्ञानालम्बनं वा निद्राज्ञानालम्बनं वा चित्तं तदाकारमेव भवति । एवंस्वभावं हि चित्तं यदालम्बते तदाकारं भवति । स्वप्ने च शब्दादिविषयशून्यं ज्ञानम् । ज्ञानस्यापि स्वभावोऽवभासकता । तत्रापि ज्ञानस्वरूपमेवालम्बते । न तु स्मर्यमाणविषयस्वरूपम् । स्मर्यमाणेनापि विषयेण खलीकारो दृश्यते । निद्राज्ञानं तु विशेषाग्रहणात्मकमभावप्रत्ययालम्बनं शान्तमनन्तमनुभूयमानाचलनधर्मकम् । ततश्च तदालम्बनं सच्चित्तं स्थितिपदं लभत इति युक्तम् ॥ ३८ ॥
यथाभिमतध्यानाद्वा । यदेवाभिमतमेिति चित्तास्थित्यपेक्षया । चित्तस्थितेः प्रकृतत्वात् । न तु सुखाद्यपेक्षया । प्रतिषिद्धत्वाच्च-"न त्वेव विषयान् प्राप्य धारयेत कथंचन” इति । तत्र लब्धस्थितिकं कर्मण्यं सत् अन्यत्र शास्त्रीयेषु अपि स्थितिपदं लभते ॥ ३९ ॥