[सुत्रम् ]
परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥ ४० ॥
[ भाष्यम् ]
सूक्ष्मे निविशमानस्य परमाण्वन्तं स्थितिपदं लभत इति । स्थूले निविशमानस्य परममहत्वान्तं स्थितिपदं चित्तस्य । एवं तामुभयीं कोटिमनुधावतो योऽस्याप्रतीघातः स परो वशीकारः ! तद्वशीकारात् परिपूर्णं योगिनिश्चित्तं न पुनरभ्यासकृतं परिकर्मापेक्षत इति ॥ ४० ॥
अथ लब्धस्थितिकस्य चेतसः किंस्वरूपा किंविषया वा समापत्तिः ? इति--तदुच्यते--
[सुत्रम् ]
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥ ४१ ॥
[ विवरणम् ]
परमाणुपरममहत्त्वान्तोऽस्य वशीकारः । अन्तशब्दः प्रत्येकं संबध्यते । सूक्ष्मे निविशमानस्य परिमाणे निविशमानस्य योगिना संक्षिप्य- माणस्य । अभ्यासकाले स्वल्पमल्पतरं च क्रमेणालेचयत्परमाण्वन्तं संक्षिप्यते । स च परमाणुश्चित्तस्य संक्षेपकोटिः । तेन तदन्तं स्थितिपदम् ॥
इत्थमुभयकोटिमनुधावतश्चित्तस्य संक्षेपं विस्तारं चानुभवतो यः तद्विरोधिना प्रत्ययान्तरेण अप्रतिघातः स परो वशीकारः । पूर्वेऽपि परे एव । तथाऽप्यस्यायं विशेषः । तद्वशीकारात् परिपूर्णम् अनवखण्डितं लब्धस्थितिकं न पुनरभ्यासकृतं परिकर्मापेक्षत इति । पूर्वे तु कियदपि परिकर्मान्तरमपेक्षन्ते ॥
तत्र संक्षिप्ता विशाला विकरणी चेति त्रयी धारणा । तत्रोभयकोटि- स्पर्शिनी विकरणी । परममहत्वान्तस्पृग्विशाला । परमाण्वन्तस्पृक् संक्षिप्ता । सा च त्रय्यपीह सूत्रोपात्ता ॥ ४० ॥
अथ लब्धस्थितिकस्य चेतसः अथ उक्तानामन्यतमेनोपायेन लब्धस्थितिकस्य किंस्वरूपा किंविषया वा समापत्तिरिति तन्निदिदर्शयिषयेदं सूत्रं प्रववृते--क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥
13