पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/147

पुटमेतत् सुपुष्टितम्
९८
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 क्षीणवृत्तेरिति प्रत्यस्तमितप्रत्ययस्येत्यर्थः । अभिजातस्येव मणेरिति दृष्टान्तोपादानम् । यथा स्फटिक उपाश्रयभेदात् तत्तद्रूपोपरक्त उपाश्रयरूपाकारेण निर्भासते, तथा ग्राह्मालम्बनोपरक्तं चित्तं ग्राह्यसमापन्नं ग्राह्यस्वरूपाकारेण निर्भासते ।

 भूतसूक्ष्मोपरक्तं भूतसूक्ष्मसमापन्नं भूतसूक्ष्मस्वरूपाभासं भवति । तथा स्थूलालम्बनोपरक्तं स्थूलरूपसमापन्नं स्थूलरूपाभासं भवति ; तथा विश्वभेदोपरक्तं विश्वभेदसमापन्नं विश्वरूपाभासं भवति ॥

[ विवरणम् ]

 ननु च समापत्तेर्विषयं वक्ष्यति तृतीयपादे '1परार्थात् स्वार्थसंयमात् पुरुषज्ञानम्’ इत्यादिना । समापत्तिस्वरूपं च संयमस्वरूपं तत्कार्यनिर्वर्तनेनैव सेत्स्यति । ततश्चानर्थकमिदं सूत्रम्--नैष दोषः--पूर्वोक्तोपायवशीकारणार्थवत्वप्रदर्शनार्थत्वात् । एवं ह्येष चितवशीकारोऽर्थवान्, येन ग्रहीत्राद्यर्थसमापन्नं चित्तं तदाभासं भवतीति ॥

 किञ्च-'वितर्काद्यनुगमात् संप्रज्ञातः' इत्युक्तम् वितर्कादिस्वरूपं चेह दर्शयितव्यम् । अनुक्तायां समापत्तौ वितर्कादिस्वरूपं न शक्यं दर्शयितुं समापत्तिधर्मा(दि)वितर्कादय इति । क्षीणवृत्तेरिति प्रत्यस्तमितबाह्यप्रमाणादिप्रत्ययस्येत्यर्थः॥

 ननु सर्व एव प्रत्ययाः प्रत्यस्तमिताः । सर्वप्रत्यस्तमये हि अवसिताधिकारं न स्थूलसूक्ष्मादिकमालम्बते ॥

 अभिजातस्येव मणेरेति दृष्टान्तोपादानम् । यथा स्फटिक उपाश्रयभेदात्तत्तद्रूपोपरक्त उपाश्रयाकारेण निर्भासते| तथा ग्राह्यालम्बनोपरक्तं चित्तं ग्राह्यसमापन्नं ग्राह्यस्वरूपाकारेण निर्भासते ॥

 तथा भूतसूक्ष्मोपरक्तं तन्मात्रोपरक्तं भूतसूक्ष्मसमापन्नं भूतसूक्ष्मस्वरूपावभासम् अवभासते ॥

 [तथा स्थूलालम्बनोपरक्तं स्थूलरूपसमापन्नं स्थूलरूपाभासं भवति । तथा विश्वभेदोपरक्तं विश्वभेदसमापन्नं विश्वरूपाभासं भवति ॥

 तथा ग्रहणेष्वपीन्द्रियेष्वपि द्रष्टव्यम् । ग्रहणालम्बनोपरक्तं ग्रहणसमापन्नं ग्रहणस्वरूपाकारेण निर्भासते ॥]


1यो. सू. पा. 3. स. 35.

.