पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/148

पुटमेतत् सुपुष्टितम्
१००
पातञ्जलयोगसूत्रभाष्यविवरणे

 युज्यते । संबन्धविशेषाच्च यथा स्वपुरुषो ग्रहीतृस्वरूपश्च मुक्तश्च चित्तवृत्तिविशेषसंबन्धात् गृह्यते तद्वत् । न तु सर्वात्मनैव महदहङ्कारयोरपि ग्रहणं महत्त्वात् ॥

 तयोरपि [तावपि] यदि सर्वात्मना गृह्येयाताम् , चित्तसत्त्वमात्रात्मानौ जायेयाताम्, तथा च सति तद्विषयग्रहणमेव न स्यात् । प्रधानपुरुषयोस्तु तत्संबन्धस्य चात्यन्तमव्यक्तस्वरूपत्वान्न स्वरूपग्रहणम् ॥

 ननु चेश्वरस्यासर्वज्ञता, [यतः] प्रधानपुरुषतत्संबन्धा न प्रत्यक्षा इति । उच्यते‌-- प्रधानपुरुषसंबन्धेभ्योऽन्यत्सर्वं प्रत्यक्षमित्यत्र तावत् अविप्रतिपत्तिः, निरवधिकप्रत्यक्षज्ञानाभ्युपगमात् । (यत्र त्वनुमानागोचरः) [यत्तु अस्माकमगोचरः तत्] स एवेश्वरो ज्ञातुमर्हति । ज्ञेयं चेदस्ति तत्सर्वमसौ यथा वा तथा वा जानातीति निश्चयः । अज्ञातृकस्य ज्ञेयत्वानुपपत्तेः ॥

 किञ्च--यदि प्रकृतिपुरुषौ स्वरूपेण ज्ञेयत्वमा(ना)पद्येयातां तदा बुद्धिवद्भोग्यताप्रसङ्गः । ततश्च परार्थोऽपि स्यात् परश्चान्यः कल्प्यः स्यात् ॥

 ननु पुरुषाणामन्योन्यभोग्यतेति न परो भोक्ता कल्प्यः--नैतदेवम्-- समत्वात् पुरुषाणां विषयविषयित्वानुपपत्तेः । न हि प्रदीपावन्योन्यमुपकुरुतः ।

 किञ्च—भोग्यत्वे सुखदिरूपताप्रसङ्गश्च पुरुषस्य । तथा च सति प्रधानस्य निर्हेतुकत्वप्रसङ्गश्चेत्येवमादयो भूयांसो दोषाः ॥

 ननु च '1 परार्थात् स्वार्थसंयमात् पुरुषज्ञानम्' इति पुरुषप्रत्यक्षतां वक्ष्यति--सत्यं युक्तमुक्तम् । अत एवोच्यते पुरुषो न स्वरूपेण विषयीभवतीति । येनैवं तत्रोक्तम् ' न च पुरुषप्रत्ययेन बुद्धिसत्वात्त्मना पुरुषो दृश्यते । पुरुष एव तं प्रत्ययं स्वालम्बनं पश्यतीति । तथा ह्युक्तम् --‘विज्ञातारमरे2 केन विजानीयात्' इतीति ॥

 ननु पुरुषालम्बनोपरक्तं चित्तं पुरुषस्य विषयः । तथा च सति प्रत्यक्ष एव पुरुषः । यथा घटालम्बनोपरक्ते प्रत्यये पुरुषेणोपलभ्यमाने घटः प्रत्यक्ष उच्यते--नैष दोषः--घटवत्पुरुषस्य चित्तेनाव्याप्यत्वात् । घटादिस्तु बाह्यश्चित्तेन व्याप्यते, न पुरुषः, आनन्त्यात् ॥


1. पा सू.पा. 3.सू.35.

2. बृ. उ. 2. 4. 14 .