पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/154

पुटमेतत् सुपुष्टितम्
१०६
पातञ्जलयोगसूत्रभाष्यविवरणे


 प्रागुत्पत्तेरभावात् कार्यस्य कारणेन संबन्धानुपपत्तिः, अविशिष्टं चासत्वं शशविषाणस्य घटस्य च । तत्र घटेनैव कारणस्य संबन्धो न शशविषाणादिभिरिति हेतुर्वदितव्य:॥

 प्राक् असन्नोत्पद्येत शशविषाणवत् । यस्तु तन्तुभ्योऽन्यः स तन्तुभ्यो नोत्पद्यते, तन्तुभ्योऽन्यत्वात् । यथा तन्तुभ्यो घटः ॥

 इतर आह----प्राक् सन्नपि नोत्पद्येत, सत्वात ,विद्यमानघटवदिति । यो यस्मादनन्यः सोऽपि तस्मान्नोत्पद्यते, विद्यमानत्वात्, स्वरूपवदिति ॥

 अपर आह-यदि सन्नोत्पद्यत इति सत उत्पत्यभाव उच्येत, सिद्ध साध्यता स्यात् । अथाभिव्यक्त्यभावः, तदा दृष्टान्ताभावः ||

 यदप्युच्यते यो यस्मादनन्य इति, तत्रापि सिद्धसाध्यता दृष्टान्ताभावश्च । स्वरूपादेव ह्यभिव्यज्यते, नासत्यभिव्यङ्गयस्वरूपेऽभिव्यक्तिरभिव्यञ्जकसहस्रेणापि शक्यते कर्तुम् ॥

 किञ्चान्यत्----सर्वव्यवहारलोपश्व । कथं ? यदा देवदत्तस्य गौरश्वो वा प्रातर्विद्यमानकर्णलाङ्गूल: पुनरटवीं गतः केनचिल्लूनकर्णो लूनलाङ्गूलो वा स्यात्, तदा पूर्वावयवविभागाद्विनष्टः, अन्यस्तु नवः प्रलूनकर्णलाङ्गूलोऽस्वामिकः सञ्जात इति येन केनचिदुपादीयेत, तथा चावयवविभागः सर्वत्र सम्भवतीति स्वस्वामिसम्बन्धादिनियमाभावादशेषव्यवहारलोपः स्यात् ॥

 अथ ब्रूयात्-पूर्वोपार्जितावयंवैरेवावयवी नवः प्रलूनकर्णलाङ्गूल आरब्ध इति--—नैवम्---न हि मातापित्रादिव्यतिरेकेणेदानीन्तनलूनकर्णलाङ्गूलावय- व्यन्तरप्रत्यारम्भिणो दृश्यन्ते ॥

 किंच---यस्य च क्षेत्रे लूनकर्णलाङ्गूलो जातस्तस्यैवासौ स्यातू, न पूर्वावयविकस्य, तत्क्षेत्रजाततृणपलाशादिवत् ॥


 यथा चान्यक्षेत्रगतानि बीजानि सलिलौघेनान्यक्षेत्रमुपनीतानि चेत्तत्तद्बीज निष्पन्नसस्यं क्षेत्रवानेव गृह्वाति, न तु पूर्वबीजवान् (तः) । न चास्यासौ प्रतिबध्नाति विद्वानपि मदीयबीजपारनिष्पन्नं सस्यमहमुपादीयेति ॥

 तथा लूनकर्णलाङ्गूलमपि क्षेत्रवानेव गृह्णीत । न तत्र प्रतिबन्ध(रूप) नीयम्मदीयावयवैरारब्धोऽयमवयवीति ॥