पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/155

पुटमेतत् सुपुष्टितम्
१०७
समाधिपादः प्रथमः

[ भाष्यम् ]

आत्मभूतः फलेन व्यक्तेनानुमितः स्वव्यञ्जकाञ्जनः प्रादुर्भवति। धर्मान्तरस्य कपालादेरुदये च तिरोभवति । स एष धर्मोऽवयवीत्युच्यते । योऽसावेकश्व महांश्वाणीयांश्च स्पर्शवांश्च क्रियाधर्मकश्वानित्यश्च तेनावयविना व्यवहाराः क्रियन्ते ।

[ विवरणम् ]

 येषामप्येकस्मिन्गृहीते तस्मिन्नश्वे लूनकर्णलाङ्गूलके जाते स्वक्षेत्रे च दृष्टे स एवाश्वदाता अन्योयं (वितिसन्योयं) महत्तमादश्वान्मया दत्तो महत्तम इतेि हरेत । हृरतामिति चेत्सर्वव्यवहारलोपप्रसङ्गः शास्त्रकोपश्च । तस्माद्[नन्योड-] वयवेभ्यः कारणेभ्य एकोऽवयवी कार्यमिति सिद्धम् ॥

 यदप्युच्यते-े--शब्दप्रत्ययधर्मादिभेदादन्य इति, तदप्ययुक्तम् । दृश्यते हि शब्दादिभेदेऽप्यनन्यत्वम् । यथा हस्तः करः पाणिरिति शब्दभेद एकस्य, पितृत्वं पुत्रत्वं च, प्रत्ययभेद एकस्यैव बद्धःपुनर्मुक्तः स्थितो गतश्चेति काल भेदात् । दाहकत्वं पाचकत्वमित्यादयो धर्मभेदा इति । दिग्देशादिभेदास्त्वसिद्धा एव । तस्मादाह--आत्मभूता इति ॥

  स च स्वफलेन व्यक्तैनानुमितः । फलेन उदकाहरणधारणसम्भव - नादिना ।यस्य हि फलं कार्यं व्यक्तमुपलभ्यते सोऽस्तीति निश्चयः। अनुमित इति विप्रतिष्पन्नापेक्षया, साधारणशब्देन शक्तिरूपेण वोच्यते । स तु प्रत्यक्ष एव अव्यक्तेन दण्डसूत्रकुलालादिकारकव्यापाराभिध्यक्तेन फलेन कार्येण घटाख्येन प्रागपि मृदाद्यवस्थायामस्तित्वेन अनुमितः स एव दण्डादिकारकैः स्वव्यञ्जकैरभि व्यज्यमानः प्रादुर्भवति धर्मान्तरोदये च तिरोभवति स एष भूतसूक्ष्माणां धर्मोऽवयवीत्युच्यते ॥

 एतदुक्तं भवति--अणूनामप्रत्यक्षत्वान्नाविर्भावतिरोभावौ युक्तौ |(तत) स्तश्च तौ । तस्माद्य आविर्भवति,धर्मान्तरोदये विरोधात्तिरोभवति च,आविर्भावे च यो व्यञ्जकाद्यपेक्षते सोऽवयवीत्युच्यते । यश्चैवंधर्मः सोऽणुभ्योऽन्य इति ॥

 किञ्च-----अमी अप्यन्ये हेतवोऽवयविसद्भावे----योऽसावेकश्च महां श्चाणीयांश्च क्रियाधर्मकश्चानित्यश्च । प्रत्येकमेते हेतवः ॥