पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/157

पुटमेतत् सुपुष्टितम्
१०९
समाधिपादः प्रथमः


[ भाष्यम् ]

 तदा च सम्यग्ज्ञानमपि किं स्यात् ? विषयाभावात्। यद्यदु पलभ्यते तत्तत् अवयवित्वेनाम्नातम्।

 तस्मादस्त्यवयवी यो महत्वादिव्यवहारापन्नः समापत्तेर्निर्वितर्काया विषयीभवति ॥४३॥

[ विवरणम् ]

 यदपि सर्वज्ञज्ञानमनित्यदुःखशून्यानात्मकत्वादिविषयं तस्यापि विषया- भावात्तदपि मिथ्थाज्ञानं प्राप्तमिति, स्वतन्त्रस्य तीर्थकरस्य चाप्रामाण्यं, तत्र तीर्थकरसहधर्माभावश्वाभ्युपगतो भवति । शब्दादिवत्प्रमाणविषयत्वाविशेषात् ॥

 तदेतत्प्रतिपादयति--सम्यग्ज्ञानमपि किं स्याद्विषयाभावात् । यद्यदुपलभ्यते तत्तदवयवित्वेनाघ्रातमिति, ज्ञानस्य स्वाकारसमर्पकत्वा- विशेषात् । तच्च स्वाकारसमर्पकं किञ्चन् नाभ्युपेयत इति सर्वस्यात्मीयस्य ज्ञानस्य तेन मिथ्यात्वमापादितम् ।

 तथा च सम्यग्ज्ञानमपि किं स्यात्, यदपेक्षया मिथ्याज्ञानमभि- सन्धीयते ।

 यदा चावयविनं सर्वप्रमाणसम्यक्सर्वज्ञानसिद्धमपह्रुते तदा न सम्यग्ज्ञानस्य विषयः सम्पादयितुं पार्यते ॥

 यदा च न पारयति, तदा कथमभिसन्दधीत सर्वं मिथ्येति । सम्य- ग्ज्ञानमपेक्ष्य मिथ्याज्ञानं मिथ्याभावमासीदति आपेक्षिकत्वात्सम्यङ्मिथ्याज्ञानयोः ॥

 यश्चापि मन्यते-निर्विषयं ज्ञानं सम्यगिति, तस्यापि स्वरूपाग्रहणात् तदस्तित्वानुपपत्तिः । गृह्यते चेद्विषयत्वादवयविमिथ्यात्वं, तन्मिथ्यात्वाच्च तज्ज्ञानमिथ्यात्वं, तथा तज्ज्ञानमपीति सर्वमिथ्यात्वमुक्तं पूर्वमेव ॥

 अपि च--निर्विषयज्ञानसम्यक्त्वे सर्वज्ञानस्य विषयानभ्युपगमान्निर्विषयत्व- मिति, सम्यक्त्वमेव प्राप्नुयात् । तथापि तु सर्वज्ञानसम्यक्त्वान्मिथ्याज्ञानं किं स्यादिति वक्तव्यम् ॥

 अथापि ब्रूयात्---यत्सविषयमिवाभाति तन्मिथ्याज्ञानं, यदत्यन्तनिर्विषयं तत्सम्यगिति । तथाऽपि तस्यास्तित्वे प्रमाणाभाव इत्युक्त एव दोषः । तस्मादवयवी सम्यग्ज्ञानस्य विषयोऽवश्याभ्युपगन्तव्यः इत्याह--तस्मादस्त्यवयवी यो महत्वाद्व्यवहारापन्नः समापत्तेर्निर्वितर्काया विषयीभवतीति ॥ ४३ ॥