तथा चोक्तम्----|
"प्रज्ञाप्रासादमारुह्य अशोच्यः शोचतो जनान्।
भूमिष्ठानिव शैलस्थः सर्वान्प्राज्ञोऽनुपश्यति ॥ इति ४७ ॥
[ सूत्रम्]
ऋतंभरा तत्र प्रज्ञा ॥ ४८ ॥
[ भाष्यम् ]
तस्मिन् समाहितचित्तस्य या प्रज्ञा जायते, तस्या ऋतंभरा इति संज्ञा भवति । अन्वर्था च सा, सत्यमेव विभर्ति, न च तत्र विपर्यासज्ञान गन्धोऽप्यस्तीति ।
तथा चोक्तम्----
"आगमेनानुमानेन ध्यानाभ्यासरसेन च ।
त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् ॥” इति ॥ ४८ ॥
सा पुनः----
[ विवरणम् ]
तथा चोक्तम्----
' प्रज्ञाप्रासादमारुह्य न शोच्यश्शोचतो जनान् ।
मूमिष्ठानिव शैलस्थः सर्वान्प्राज्ञोऽनुपश्यति॥ ' इति ॥ ४७ ॥
ऋतंभरा तत्र प्रज्ञा । तस्मिन् प्रज्ञालोकेऽध्यात्मप्रसादे समाहितस्य या प्रज्ञा जायते विवेकजन्मा, तस्या विवेकजन्मनः ऋतम्भरेति संज्ञा भवति । अन्वर्थैव सा सत्यमेव बिभर्तिं न तत्र विपर्यासज्ञानगन्धोऽप्यस्ति । प्रक्षीणसकलविपर्यासकल्मषस्य हि जायते । जायमाना च विषयकळङ्क मपनुदति ॥
तथा चोक्तम्----
' आगमेनानुमानेन ध्यानाभ्यासरसेन च ।
त्रिधा प्रकल्पयन्प्रज्ञां लभते योगमुत्तमम् ॥ ' इति ।
योगाङ्गप्रज्ञां त्रिधा विभजते । तत्रैको भागः शास्त्राचार्योपादिष्टार्थानुसारी । द्वितीयस्तस्यैव युक्त्याऽनुमानेन विचार्यागमार्थविरोधिनिराकरणपूर्वकं तत्सम्यगुप पादनपरः । तृतीयस्तु सदागमानुमानसम्यगुपपक्षार्थालम्बनस्य प्रत्ययस्यानुशीलनं रसोपयोगी । तदित्थं त्रिधा प्रकल्पयन्योगी योगं लभते ॥ ४८ ॥