पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/164

एतत् पृष्ठम् परिष्कृतम् अस्ति



१२६
पातञ्जलयोगसूत्रभाष्यविवरणे


[ भाष्यम् ]

 तस्मात् श्रुतानुमानप्रज्ञाभ्यामन्यविषया सा प्रज्ञा विशेषार्थत्वात् इति ॥ ४९ ॥

समाधिप्रज्ञाप्रतिलम्भे योगिनः प्रज्ञाकृतः संस्कारो नवो नवो जायते----

[सूत्रम्]

तज्जः. संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ ५० ॥

[ भाष्यम् }

 समाधिप्रज्ञाप्रभवः संस्कारो व्युत्थानसंस्काराशयं बाधते । व्युत्थानसंस्काराभिभवात् तत्प्रभवाः प्रत्यया न भवन्ति । प्रत्ययनिरोधे समाधिरुपतिष्ठते । ततः समाधिजा प्रज्ञा, ततः प्रज्ञाकृताः संस्काराः इति, नवो नवः संस्काराशयो जायते । ततश्च प्रज्ञा, ततश्च संस्कारा इति ।

[ विवरणम् }

 ननु च ते सूक्ष्मगता विशेषाः प्रत्यक्षेणावगम्यन्ते इति --- किमीश्वराज्ञापितम् । वस्तुत्वादवगम्यन्त इति चेत्---आगमानुमानाभ्यां सन्तीत्यवगम्यन्त एव । न च नियामकं किंचिदस्ति प्रत्यक्षेणैव निर्ग्राह्मा इति । न हि विशेषा हस्ततलगता अपि सर्वे गृह्यन्ते-न-अन्यवस्तुगतविशेषाणां प्रत्यक्षग्राह्मत्वस्यानुमेयत्वात्॥

 कथम् ? एवं मन्यते-भूतसूक्ष्मादिगता विशेषाः प्रत्यक्षग्राह्याः कस्य चित्, कार्यवस्तुविषत्वात्, गृह्यमाणस्वपाणिगतविशेषवदिति ।तस्माच्छ्रुतानु मानप्रज्ञाभ्यामन्यविषया सा प्रज्ञा, विशेषार्थत्वादिति । विशेषार्था हि सा॥४९॥

 समाधिप्रज्ञाप्रतिलम्भे योगिनःप्रज्ञाकृतः संस्कारो नवो जायते । प्रज्ञा हि संस्काराराम्भिणीति सिद्धम् । प्रज्ञाभिनवत्वात्तत्संस्कारः प्रत्यग्रतरो जायते इति विशेषः । प्रज्ञानवत्वं तु तस्या (सामान्य) अन्यविषयत्वात् । तज्जस्संस्कारोऽ न्यसंस्कारप्रतिबन्धी ऋतम्भरप्रज्ञाप्रभवसंस्कारो व्युत्थानसंस्काराशयं अन्यं बाधते विशिष्टयथार्थविषयप्रभवत्वात्प्रतिबध्नाति । आमोक्षाच्छेत इति संस्काराशयः ॥

 व्युत्थानसंस्काराभिभवात् व्युत्थानसंस्काराशयस्य समधिप्रज्ञासंस्कारे णाभिभवात् तत्प्रभवाः व्युत्थानसंस्कारप्रभवाः प्रत्यया न भवन्ति । प्रत्ययनिरोधे व्युत्थानप्रत्ययनिरोधे समाधिः सम्प्रज्ञात इव उपतिष्ठते । ततः समधिजा प्रज्ञा, ततः प्रज्ञाकृताः संस्कारा इति, एवं नवः संस्काराशयो वर्धते । ततश्च प्रज्ञा ततश्च संस्कारा इति॥