[ भाष्यम् ]
नातपस्विनो योगः सिद्ध्यति । अनादिकर्मक्लेशवासनाचित्रा प्रत्युपस्थितविषयजाला चाशुद्धिः ।
[ विवरणम् ]
ननु परस्तादेवैतद्वक्ष्यति--"समाधिसिद्धिरीश्वरप्रणिधानात्[१]" "कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः[२]" इत्येवम् । प्रत्येकसाधनानां सिद्धिं च वक्ष्यति ॥
नैतदस्ति--सिद्धानामिह तत्र साधनस्तुत्यर्थमनुवादात् । अत्र हि तादर्थ्यमुच्यते । तथा चाह--"समाधिभावनार्थः क्लेशतनूकरणार्थश्च[३]" इति । तत्र ह्यनूद्यन्ते साधनस्तुतये ॥
सम्प्रति सूत्राक्षराणि व्याख्यायन्ते--तपश्च स्वाध्यायश्चेश्वरप्रणिधानञ्च तपस्स्वाध्यायेश्वरप्रणिधानानि । तान्येव क्रियारूपो योगः क्रियायोगः । तपआदिक्रिया च योगार्थत्वाद्योग इत्युच्यते । चित्तधर्मो हि समाधिर्योगः । तदर्थश्चायं क्रियायोगः । तस्मादनेन क्रियायोगेन योगीति ॥
तप इति कृच्छ्रचान्द्रायणादि, शीतोष्णादिद्वन्द्वसहत्वम् । स्वाध्यायः--प्रणवस्य मोक्षशास्त्राणां चोपनिषत्प्रभृतीनां पवित्राणां जपः । "ईश्चरप्रणिधानं--क्रियाणां परमगुरावीश्वरे समर्पणम् । तासां वा फलसंन्यासः परमेश्वरे संन्यसनम् ॥
कथं पुनश्चित्तसमाधानं प्रति विप्रकृष्टस्य कायक्लेशादिरूपस्य तपसो योगत्वम् ? स्वाध्यायेश्वरप्रणिधानयोस्तु युक्तमन्तरङ्गत्वाद्योगत्वमिति, तदर्थमाह--नातपस्विनो योगः सिध्यतीति ॥
शरीरादिपोषणाभिरतचित्तस्य कायेन्द्रियमनःखेदपरिहारपरायणस्यात्यन्तशरीराद्यात्मत्वदर्शिनः सुकुमारतरंमन्यस्य न योगः सिध्यतीति तपस उपादानम् ॥
किञ्च--अनादिवासनाचित्रा--विषयग्रहणवासनाभिरनादिकालभिरुपरचितविचित्रभावा । तथा प्रत्युपस्थितविषयजाला--वर्तमानकाला विषया एव जाले, तेन च वर्तमानविषयाख्येन जालेन आनायेन झषानिव चित्तं अशुद्धिः पाशयति या सा प्रत्युपस्थितविषयजाला सती यस्मात्