पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/189

पुटमेतत् सुपुष्टितम्
१४२
पातञ्जलयोगसूत्रभाष्यविवरणे

[ सूत्रम् ]

॥ ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ १० ॥

[ भाष्यम् ]

। ते पञ्च क्लेशाः दग्धबीजकल्पा योगिनश्वरिताधिकारे चेतसि प्रलीने सह तेनैवास्तं गच्छन्ति ॥ १० ॥ ।

। स्थितानान्तु बीजभावोपगतानाम्-

[ सूत्रम् ]

॥ ध्यानहेयास्तद्वृत्तयः ॥ ११ ॥

[ भाष्यम् ]

 क्लेशानां या वृत्तयः स्थूलास्ताः क्रियायोगेन तनूकृताः सत्यः प्रसंख्यानेन ध्यानेन हातव्याः यावत्सूक्ष्मीकृता यावद्दग्धबीजकल्पाः इति ।

[ विवरणम् ]

हेया[१]स्तद्वृत्तयः' इति। तत्र न ज्ञायते किंविषयो ध्यानप्रयोगः, किं दग्धबीजकर्मक्लेशविषयः ? किं सर्वविषयः ? इति । तद्विषयविभजनार्थमिदं सूत्रमारभ्यते-- ते प्रतिप्रसवहेयाः सूक्ष्मा इति ॥

 ते पञ्च क्लेशाः दग्धबीजकल्पाः योगिनश्चरिताधिकारे चेतसि प्रलीने सह तेनास्तं गच्छन्ति । एतदुक्तं भवति--सम्यग्दर्शनाभ्यासानलदग्धबीजसामर्थ्यानां क्लेशानां कृताशेषपुरुषप्रयोजनस्य चेतसः प्रतिप्रसवेनैव प्रलयेनैव प्रलयोत्पत्तेर्न ध्यानसाधनापेक्षा । न हि दग्धं दाहमपेक्षते, पिष्टं वा पेषणमिति । चेतस्तु साधितपुरुषार्थत्वात् स्थितिप्रयोजनाभावाच्च स्वयमेव निवर्तते ॥ १० ॥

 कीदृशानां पुनर्ध्यानादिसाधनापेक्षेत्यत उच्यते-स्थितानां तु बीजभावोपगतानामिति ॥

{{gap}}ध्यानहेयास्तद्वृत्तयः । क्लेशानां या वृत्तयः स्थूलास्ताः क्रियायोगेन तपस्स्वाध्यायेश्वरप्रणिधानाख्येन स्थूलप्रतिपक्षेण तनूकृताः पूर्वम् । तत इदानीं तनूकरणाद्बीजशक्त्यवस्थाः प्रसैख्यानेन सम्यग्दर्शनशीलनतो नैपुणविशेषेण ध्यानेन महता बलीयसा प्रतिपक्षेण हातव्याः, ततोऽपि यावत्सूक्ष्मीकृताः । किमुक्तम् भवति । यावद्दग्धबीजकल्पाः यावन्निर्बीजीकृता इति ॥


  1. यो. सू. पा. 2. सू. 11.