पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/197

पुटमेतत् सुपुष्टितम्
१५०
पातञ्जलयोगसूत्रभाष्यविवरणे



[ भाष्यम् ]

। न चानेकं कर्मानेकस्य जन्मनः कारणम् । कस्मात् ? तदनेकं जन्म युगपन्न सम्भवतीति क्रमणैव वाच्यम् । तथा च पूर्वदोषानुषङ्गः ॥ ।

 तस्माज्जन्मप्रायणान्तरे कृतः पुण्यापुण्यकर्माश[१]यप्रचयो विचित्रः प्रधानोपसर्जनभावेनावस्थितः प्रायणाभिव्यक्त एकप्रघट्टकेन मरणं प्रसाध्य संमूर्छित एकमेव जन्म करोति । तच्च जन्म तेनैव कर्मणा लब्धायुष्कं भवति । तस्मिन्नायुषि तेनैव कर्मणा भोगः सम्पद्यत इति ।

[ विवरणम् ]

 द्वितीयविचारणायामिदानीं प्रथम: पक्षो निराक्रियते-न चानेकं कर्मानेकस्य जन्मनः कारणम् । कस्मादेवं नाभ्युपगम्यते ? तदुच्यते, तदेवानेकं जन्म युगपन्न सम्भवति एकस्यानीश्वरस्य । ततश्च क्रमेण वाच्यमाने किमेकमनेकं जन्मारभत इति । तथा च पूर्वदोषानुषङ्गः सर्वत्र प्रथमदोषानुषङ्गः फलक्रमानियमादनाश्वास इति ॥

 तस्मात् एवं पक्षत्रयानुपपत्ताविदानीं सिद्धान्तमुपसंहरति-—जन्मप्रायणान्तरे जन्ममरणयोरन्तरे मध्ये कृतः पुण्यपापकर्माशयः अविरुद्धजन्मदेशनिमित्त इति वाक्यशेषः । विरुद्धजन्मदेशनिमित्तः पुनः अदृष्टजन्मवेदनीयः अप्रतिनियतविपाकः । तस्य त्रिधा विनियोगं वक्ष्यति । तस्मादविरुद्धफलस्यैव पुण्यापुण्यकर्माशयस्यायं नियम उच्यते |

{{gap}}प्रचयविचित्रः तुल्यातुल्यानेककर्मप्रचितत्वात्प्रचयेन विचित्रः । प्रधानोपसर्जनभावेनावस्थितः किञ्चित्कर्म कस्यचित्कर्मणः प्रधानमपि कस्यचिदन्यस्योपसर्जनमुपसर्जनमपि प्रधानमित्येवमनेककर्मशबलिम्नाऽवस्थितः ॥

{{gap}}प्रायणाभिव्यक्तः यथा बीजक्षेत्रसंस्कारसंयोगोऽङ्कुरभावाभिव्यक्तिकारणं, तथा प्रायणमप्यविरुद्धानां कर्मणामभिव्यक्तिनिमित्तम् । एकप्रघट्टकेन एकलोलीभावेन समुच्चितः एकीभूतः एकमेव जन्म करोति ॥

{{gap}}तच्च जन्म तेनैव प्रायणाभिव्यक्तात्मना कर्मणा लब्धायुष्कं भवति । तस्मिन्नायुषि तेनैव कर्मणा भोगः सम्पद्यते, येन जन्मायुषी कृते । यथा येन बीजेनाङ्कुरो निर्वृत्तस्तेनैव फलपुष्पादयोऽपि ॥


  1. 'कर्माशयः प्रचयविचित्र:' इति विवरणाभिमतपाठः ॥