पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/200

पुटमेतत् सुपुष्टितम्
१५३
साधनपादीं द्वितीय

 यस्तु विरुद्धजन्मदेशकालनिमित्तः सोऽदृष्टजन्मवेदनीयत्वसामान्ये सत्यप्यनियतविपाकः । कस्मात्? नियतविपाकेन विरोधात् । न चायमेकभविक, विरोधादेव । यत्त्वस्यैकभविकत्वमुक्तं, यस्त्वसावेकभविक: कर्माशय इति तददृष्टजन्मवेदनीयत्वसामान्येन ॥

 ननु च यद्येवं जन्मप्रायणान्तरे कृतः पुण्यपापकर्माशयः प्रचयविचित्रः प्रधानोपसर्जनभावेनावस्थितः प्रायणाभिव्यक्तः 'एकप्रघट्टेन सम्मूर्छित एकजन्म करोतीत्येवमादिनियमो विरुध्येत । कुतः ? प्रायणस्य सर्वपूर्वकर्माभिव्यञ्जकत्वात्, आशयाधारोपमर्देन चाशयान्तरोत्पत्तेः, मानुष्यकाशयाधारे पूर्वं दैवतैर्यग्योनाशयानां समवस्थानं, तदाधारोपमर्दनकाले च प्रायणे साधारणे सर्वकर्मभिव्यक्तिकारणे दैवतैर्यग्योनाशयानां कस्यचिदेवाभिव्यक्तिर्नेतरेषामिति नास्ति हेतुः । न हि स्वगोचरापन्नं व्यङ्ग्यमेकदेशपरित्यागेनाभिव्यनक्ति प्रदीपः ॥

 अत्रोच्यते-नैतद्युक्तं, कर्मानर्थक्यप्रसङ्गात् | बहुप्रकाराणि हि कर्माणि परस्परविरुद्धानि क्रियन्ते । यो हि स्वर्गार्थं कर्म कृतवान् स एव पशुग्रामाद्यर्थं कर्मानुष्ठाय पुनर्ब्रह्महत्यां वा स्थावरादिप्राप्यर्थं वा बलवत्कर्मानुतिष्ठेत् । तत्र नरकस्थावरादिप्राप्तस्य न हि पशुग्रामादिलाभसंभवः । ततश्च तत्कर्मणामानर्थक्यं प्रसज्येत ॥

 अथ तत्रापि ग्रामादिलाभसुखं भवतीति चेत्-न हि ग्रामकाम इत्युक्ते ग्रामसुखत्वमभिप्रेतम् । न हि ग्रामसुखं प्राप्तो ग्रामं प्राप्तवान् ॥

 किञ्च-सर्वशास्त्रविप्रकोपश्च स्यात् । अदृष्टानां च स्वर्गनरकादीनां सुखदुःखमात्रप्रसङ्गः । ‘ततः[१] शेषेण' इति शेषसद्भावज्ञापनश्रुतिस्मृतयो बाध्येरन् । तस्मान्न सर्वं कर्म प्रायणेऽभिव्यज्यते । अत्यन्तविरुद्वानां कर्मणामानर्थक्यप्राप्तेः । कर्मशास्त्रानर्थक्ये च मोक्षशास्त्रेऽप्यनाश्वासप्रसङ्गः ॥

 अभिव्यञ्जकानामपि कस्यचिदभिव्यञ्जकत्वं कस्यचिन्नेति दृश्यते व्यभिचारः । यथा चक्षुषो रूपाभिव्यञ्जकत्वेऽपि चैत्रोलूकचक्षुषोरहोरात्रयोरितरेतरव्यभिचारः । आलोकस्य च समाने सर्वचक्षुस्सहकारित्वे, नोलूकचक्षुस्सहकारित्वम् । एकस्मिंश्च स्त्र्यादिपिण्डे सुखदुःखमोहानां सर्वेषामभिव्यक्तिनिमित्तेऽपि कस्यचिदेवाभिव्यक्तिः ॥


  1. गौतमधर्मसूत्रम् 11. 31.