पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/208

पुटमेतत् सुपुष्टितम्
१६१
साधनपादो द्वितीय:

[ भाष्यम् ]

 या भोगेष्विन्द्रियाणां तृप्तेरुपशान्तिस्तत्सुखम् । या लौल्यादनुपशान्तिस्तद्दुःखम् । न चेन्द्रियाणां भोगाभ्यासेन वैतृष्ण्यं कर्तुं शक्यम् । कस्मात् ? यतो भोगाभ्यासमनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणामिति ।

[ विवरणम् ]

 इतश्च सर्वं दुःखमेव, अविद्यात्वाद्विषयसुखस्य । अविवेकप्रत्ययात्मको हि विषयसुखानुभवः । तदेतदाह--विषयसुखं चाविद्येत्युक्तमिति । क्वोक्तम् ? इहैव पर्यायशब्देन "[१]अत्यन्तविवि[भ]क्तयोरत्यन्तासङ्कीर्णयोरविवेकप्राप्ताविव सत्यां भोगः कल्पते । स्वरूपप्रतिलम्भे तु तयोः कैवल्यमेव भवति कुतो भोग इति"' इत्यनेन भाष्येण ॥

 यद्वा, सूत्रकारेणोक्तमुपरिष्टात् “[२]प्रत्ययाविशेषो भोगः” इति । अविद्या च परिणममाना सर्वमनर्थं करोति । ततश्च दुःखबीजत्वाद्दुःखमेव विषयसुखम् । यथा व्याधिनिमित्तत्वात् स्वादुतरमपि भक्ष्यमाणम् । विषयसुखं चाविद्येत्यस्यैवार्थस्य प्रकाशनार्थं तन्त्रसिद्धमुदाहरणं दर्शयति--या भोगोष्विन्द्रियाणां भुज्यन्त इति भोगाः शब्दादयः तेषु निमित्तेषु या तृप्तिः तत इन्द्रियाणां उपशान्तिः उपशमः किमनर्थायासहेतुकया वृत्त्येति निराकुलतयावस्थानं तत् सुखम् ॥

 या तु लौल्यादीप्सया तृष्णात: सकाशादनुपशान्तिः अनुपरतिः तद्दुःखम् । तदुक्तम्-

"नास्ति तृष्णासमं दुःखं नास्त्यतृष्णासमं सुखम्' इति ॥

 ननु चोपभोगेनैव वैतृष्ण्यं भवति उपभोगान्ते । उपभोगश्व सुखं भविष्यति । तत आह--न चेन्द्रियाणां भोगाभ्यासेन शक्यं वैतृष्ण्यं कर्तुम् । कस्मात् ? अत आह--यतो भोगाभ्यासमनु विवर्धन्ते इन्द्रियाणां रागाः । तथा चोक्तम्

 “न जातु कामः कामानामुपभोगेन शाम्यति ।
 हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥" इति ।


  1. यो. सू. पा. 2. सू. 6.
  2. यो. सू. पा. 3. सू. 35.