पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/212

पुटमेतत् सुपुष्टितम्
१६५
साधनपादो द्वितीय:



[ भाष्यम् ]

 तमे(दे)वमनादिना दुःखस्रोतसा व्युह्यमानमात्मानं भूतग्रामं च दृष्ट्वा योगी सर्वदुःखक्षयकारणं सम्यग्दर्शनं शरणं प्रपद्यते इति ।

[ विवरणम् ]

 स्वकारणोपहृत् दुःखप्राप्तिनिमितैश्वेतनाचेतनादिभिरुपहृतमुपनीतं बुद्धिवृत्तिद्वोरण पुरुषस्य कर्मतामापादितं, दुःखमुपात्तं त्यजन्तं शरीरत्यागेन, अन्यत्र च त्यक्तं पुनरन्यं शरीरादिलक्षणमेव दु:खसमुदायमुपाददानमनादिवासनाचित्रया अविद्यया चित्तवृत्या सर्वतोऽनुविद्धमिव ॥

 इतरं प्रतिपत्तारं किंविशिष्टम् ? हातव्याहङ्कारममकारानुपातिनम् । कार्यकरणेषु तद्धर्मषु च क्रियागुणफलेषु विपर्ययेण प्रतिपत्तिरहङ्कारः । ममकारस्तु तेषु बाह्येषु च चेतनाचेतनेषु ममेति प्रत्ययः । तौ च विपर्ययत्वात् समस्तक्लेशकर्मविपाकबीजत्वाच्च हातव्यौ । न हि तावन्तरेण रागादयः कर्मविपाका वा समुदाचरन्ति । तस्माद्धातव्यौ तौ तावनुपतितुं शीलमस्येति हातव्याहङ्कारममकारानुपाती, तम् ॥

 जातं जातं अन्यगात्रावयवकल्पं बाह्याध्यात्मिकोभयनिमित्ताः बाह्यं देवता भूतानि च, आध्यात्मिकं कार्यं कारणं च, बाह्याध्यात्मिकानि चोभयानि च निमित्तं येषां ते बाह्याध्यात्मिकोभयनिमित्ताः ।

 त्रिपर्वाणः बाह्यादिनिमित्तमेव त्रिपर्वत्वम् । भूतभविष्यद्वर्तमानत्वं वा त्रिपर्वत्वम् । वक्ष्यति च “हेयं दुः[१]खमनागतम्" इति । यद्वा, क्लेशकर्मविपाकात्मकत्वम् । यद्वा, परिणामतापसंस्कारदुःखत्वम् । अतस्ते त्रिपर्वाणस्तापा अनुप्लवन्ते अनुषज्यन्ति ।

 त(मे)देवं अविवेकं प्रतिपत्तारम् अनादिदु:खस्रोतसोह्यमानमात्मानं च दुःखमस्त्रोतसि मग्नं तथा भूतग्रामं च दृष्ट्वा योगी सर्वदु:खक्षयकरं सम्यग्दर्शनं शरणं प्रपद्यत इति ॥

 ननु च योगित्वादेव सम्यग्दर्शनं प्रतिपक्षः । उच्यते-योगाङ्गानुष्ठानादेव योगित्वं, ऋतेऽपि सम्यग्दर्शनात् । तस्मात् सम्यग्दर्शनसाधनत्वं योगस्य


  1. यो. सू. पा. 2. सू. 16,