पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/224

पुटमेतत् सुपुष्टितम्
१७८
पातञ्जलयोगसूत्रभाष्यविवरणे



[ भाष्यम् ]

 तुल्यजातीयातुल्यजातीयशक्तिभेदानुपातिनः प्रधानवेलायामुपदर्शितसन्निधाना गुणत्वेऽपि च व्यापारमात्रेण 'प्रधानान्तर्णीतानुमितास्तिताः पुरुषार्थकर्तव्यतया प्रयुक्तसामर्थ्याः सन्निधिमात्रोपकारिणोऽयस्कान्तमणिकल्पाः प्रत्ययमन्तरेणैकतमस्य वृत्तिमनु वर्तमानाः प्रधानशब्दवाच्या भवन्ति ।

[ विवरणम् ]

 एतदुक्तं भवति-एकस्मिन् कार्ये आरब्धव्येऽत्यन्तव्यतिषक्तपरस्परशक्तयः कार्यारम्भकाले *पृथक्त्वेनानुपलक्ष्यमाणशक्तिप्रविभागा इति ॥

 तुल्यजातीयातुल्यजातीयशक्तिभेदानुपातिनः । सात्त्विकानां सत्त्वं तुल्यजातिः, राजसानां रजस्तुल्यजातिः, तामसानां तम इति च । परस्परापेक्षया तु भिन्नजातीयत्वम् । तुल्यजातीयातुल्यजातीयानां शक्तिप्रभेदमनुपतितुं शीलं येषां ते तुल्यजातीयातुल्यजातीयशक्तिप्रभेदानुपातिनः । न हि सात्त्विके वा राजसे तामसे वा प्रारब्धव्यस्य त्रयाणां शक्तिप्रभेदानुपातमन्तरेण कार्यारम्भः सम्भवति ॥

 यद्येवं सर्वशक्तिप्रभेदानुपातित्वादेकैकस्य कार्यारम्भे तुल्यं प्राधान्यमित्यत आह-प्रधानवेलायामुपदर्शितसन्निधानाः सर्वे । एकैकस्मिन् प्राधान्येन स्वकार्यारम्भिणि तत्काल इतरयोरपि सन्निधानमुपसर्जनभावेनोपदर्शितमिति प्रधानवेलायामुपदर्शितसन्निधानाः । न हि सर्वेषां युगपत् प्राधान्यम् । समप्रधानत्वे हि प्रधानमेव भवेयुः, न कार्यारम्भित्वम् ॥

 अथोच्यते-कथं पुनरेकस्मिन् प्राधान्येन कार्यारम्भिणीतरास्तित्वमवगम्यत इति । तदुच्यते-गुणत्वे चोपसर्जनभावे च व्यपारमात्रेण प्रधान उपलक्ष्यमाणेन व्यापारमात्रेण । प्रधानान्तर्नीतेन न हि प्रधानस्यान्तर्नीतो व्यापारः इतरयोरुपसर्जनभावेनासन्निधाने संभविष्यतीति प्रधानव्यापारेणानुमितास्तित्वाः ॥


1. *प्रधानान्तर्नीतेनानुमितास्तत्वाः? इति विवरणाभिमतो भाष्यपाठः । 2. अत्र आदर्शकोशे 'पृथक्त्वेनानुप' इत्येतदुपरि ‘च तत्सारूप्यमादर्शितं? इत्यादिः अत्र (192) पुटे मुद्रिते ग्रन्थः उपलभ्यते । तस्यानन्वयात् आदर्शकोशे (55) पुटानन्तरं लिखितः ‘लक्ष्यमाण? इत्यादिग्रन्यो योजितः ॥