पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/232

पुटमेतत् सुपुष्टितम्
१८६
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

एष तेषां लिङ्गमात्रः परिणामो निस्सत्तासक्तं चालिङ्गपरिणाम इति ॥

 अलिङ्गावस्थायां न पुरुषार्थो हेतुः, नालिङ्गावस्थायामादौ पुरुषार्थता कारणं भवतीति । न तस्याः पुरुषार्थता कारणं भवतीति । नासौ पुरुषार्थकृतेति नित्या आख्यायते ॥

 त्रयाणां त्ववस्थाविशेषाणामादौ पुरुषार्थता कारणं भवति | स चार्थौ हेतुर्निमित्तं कारणं भवतीत्यनेित्या आख्यायते ॥

 गुणास्तु सर्वधर्मानुपातिनो न प्रत्यस्तमयन्ते नोपजायन्ते । व्यक्तिभिरेवातीतानागतव्ययागमवतीभिर्गुणान्वयिनीभिरुपजननापायधर्मका इव प्रत्यवभासन्ते । यथा देवदत्तो दरिद्राति । कस्मात्? यतोऽस्य म्रियन्ते गाव इति । गवामेव मरणात्तस्य दरिद्राणं न स्वरूपहानादिति समः समाधिः ॥

[ विवरणम् ]

 प्रतिसंसृज्यमानाश्च प्रतिलीयमानाश्चाविशेषाः तस्मिन्नेव सत्तामात्रे लिङ्गमात्रे महत्यात्मन्यवस्थायाव्यक्तं प्रति यान्ति। किंविशिष्टम्? निस्सत्तासत्तं विशेषाविशेषधर्मरहितम् । निस्सदसदिति अव्यक्तादीषद्विकृतमिति सत्, अविशेषेभ्यः सूक्ष्मतरमिति चासत्, सच्चासच्च सदसदिति महत्तत्त्वमुध्यते । तद्धर्मरहितमव्यक्तं निस्सदसदिति ॥

 एष तेषां गुणानां सत्त्वादीनां लिङ्गमात्रः परिणामः यस्मिन्नवस्थाय विवृद्धिकाष्ठां प्रतिलयं च प्रतियान्त्यविशेषाः । निस्सत्तासत्तं चाव्यक्तं च यत् स तेषामेव गुणानामलिङ्गपरिणामः । परश्च न सूक्ष्मोऽवस्थान्तरपरिणामोऽस्ति गुणानाम् ।। सूक्ष्माविषयत्वं चालिङ्गपर्यवसानम्’ इति हि व्याख्यातम् ॥

 अलिङ्गत्वादेवालिङ्गावस्थायां न पुरुषार्थो हेतुः । अलिङ्गावस्थानिमित्तं न पुरुषाथें हेतुः । नालिङ्गावस्था पुरुषार्थप्रयुक्तोत्यर्थः । तदेतत् व्याचष्टे - नालिङ्गावस्थायामादौ पुरुषार्थता कारणम् । कस्मात् पुनस्तदवस्था पुरुषार्थप्रयुक्ता न भवतीति ? तत आह-यस्मान्नास्यां पुरुषार्थता कारणं विद्यते । स्वयमपि नासौ पुरुषार्थता महदादिवदसंवेद्यत्वादीश्वराणामपि ॥  १. या.सू. पा. १. सू. 45.