पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/234

पुटमेतत् सुपुष्टितम्
१८८
पातञ्जलयोगसूत्रभाष्यविवरणे



[ भाष्यम् ]

तथा षडविशेषा लिङ्गमात्रे संसृष्टा विविच्यन्ते परिणामक्रमनियमात्। तथा तेष्वविशेषेषु भूतेन्द्रियाणि संसृष्टानि विविच्यन्ते । तथा चोक्तं पुरस्तात् । न विशेषेभ्यः परं तत्त्वान्तरमस्तीति विशेषाणां नास्ति तत्त्वान्तरपरिणामः । तेषां तु धर्मलक्षणावस्थापरिणामा व्याख्या यिष्यन्ते ।। १९ ॥



[ भाष्यम् ]

व्याख्यातं दृश्यम् । अथ द्रष्टुः स्वरूपावधारणार्थमिदमारभ्यते-



[ सूत्रम् ]

द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ २० ॥

[ विवरणम् ]

प्रधाने तत् लिङ्गं संसृष्टं संलीनं प्रथमं विविच्यते आविर्भवति नेतरे विशेषा विप्रकृष्टत्वादेव । तदेवाह-क्रमानतिपत्तेः क्रमानतिक्रमात् । न हि लोके कस्यचिदुत्पद्यमानस्य क्रमातिलङ्घनमस्ति ॥

 तथा षडविशेषा: पूर्वोक्ता लिङ्गमात्रे प्रत्यासन्नत्वात् संसृष्टत्वाद्विविच्यन्ते । कस्मादित्याह-परिणामक्रमनियमात् । तथा तेष्वविशेषेषु भूतेन्द्रियाणि । तन्मात्रेषु भूतानि संसृष्टानि विविच्यन्ते । अस्मितामात्रे इन्द्रियाणि मनस्सहितानि ।

 तथा चोक्तं पुरस्तात् । न विशेषेभ्यः प्रागुक्तेभ्य आकाशादिभ्यः परं तत्त्वान्तरमस्ति । न विशेषाणामन्यस्तत्त्वान्तरपरिणाम इत्यर्थः ।एतदेवाह -विशेषाणां नास्ति तत्त्वान्तरमिति । तत्त्वं हि नाम साधारणं सर्वप्राणधारिणामामहाप्रलयस्थायि । नैवंलक्षणं पृथिव्यादिभ्य उत्पद्यमानमन्यदस्ति । धर्मलक्षणावस्थापरिणामास्तु भवन्त्येवेति । तेषां तु विशेषाणां धर्मलक्षणावस्थापरिणामा व्याख्यायिष्यन्ते तृतीयपादे ॥ १९ ॥  व्याख्यातं दृश्यम् अवघृतं दृश्यम् । यदर्थे च दृश्यते तस्येदानीं द्रष्टुः स्वरूपावधारणार्थमिदमारभ्यते-द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः द्रष्टा दृश्यस्य यथाव्याख्यातरूपस्योपलब्धा पुरुषः । तस्येदं लक्षणं दृशिमात्रः