पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/241

पुटमेतत् सुपुष्टितम्
१९५
साधनपादो द्वितीयः

[ भाष्यम् ]

 अतश्च दृग्दर्शनशक्त्योर्नित्यत्वादनादिः संयोगो व्याख्यात इति । तथा चोक्तम्[१] - "धर्मिणामनादिसंयोगाद्धर्ममात्राणामप्यनादिः संयोगः” इति ॥ २२ ॥  संयोगस्वरूपाभिधित्सयेदं सूत्रं प्रववृते-

[ सूत्रम् ]

स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ २३ ॥

[ भाष्यम् ]

 पुरुषः स्वामी दृश्येन स्वेन दर्शनार्थं संयुक्तः । तस्मात् संयोगात् दृश्यस्योपलब्धिर्या स भोगः । या तु द्रष्टुः स्वरूपोपलब्धिः सोऽपवर्गः ।

[ विवरणम् ]

 अतश्च दृग्दर्शनशक्त्योर्नित्यत्वादनादिः संयोगो व्याख्यातः ! तथा चोक्तं तन्त्रे-धर्मिणामनादिसंयोगात् गुणानां पुरुषाणां चानादिसंयोगाद्धर्ममात्राणां महदादिकार्यकरणान्तानामपि पुरुषैरनादिः संयोगो धर्मिभिर्धर्माणामभिन्नत्वात् ॥ २२ ॥

 दृश्यमवधृतम् । द्रष्टा चावधृतः । द्रष्टृदृश्ययोः संयोगो हेयहेतुरिति चोक्तम् । स च संयोगोऽवधारयितव्यः कीदृश इति । ततश्च संयोगस्वरूपावधारणार्थमिदं सूत्रं प्रववृते-स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः । स्वस्वामिशक्त्योः बुद्धिपुरुषयोः स्वरूपोपलब्धेर्हेतुः कारणम् । यस्मिन् सति तयोः स्वरूपमुपलभ्यते वदनदर्पणयोरिव, स तयोः स्वरूपोपलब्धिहेतुः । संयोगः दृष्टदृश्यस्वरूपकार्यानुमेय इत्यर्थः ॥

 प्रमाणं चात्र स्वसंयोगपूर्विका बुद्धिपुरुषयोः स्वरूपोपलब्धिः, विषयविषयिस्वरूपोपलब्धित्वात् , ईक्षणदर्पणस्वरूपोपलब्धिवत् । या काचित् सुखदुःखोपलब्धिर्विवादगोचरापन्ना सा सुखदुःखहेतुसंयोगपूर्विका, सुखदुःखोपलब्धित्वात्, चन्दनकण्टकसुखदुःखोपलब्धिवत् ॥

 तदाह-पुरुषः स्वामी दृश्येन स्वेन स्वया बुद्धया दर्शनार्थं भोगापवर्गदर्शनार्थं संयुक्तः । दर्शनप्रयुक्त एव संयोग इत्यर्थः ॥

{{gap}}तस्मात् संयोगाद्दर्शनप्रयुक्ता दृश्यस्योपलब्धिः अविशिष्टा या स भोगः। या तु द्रष्टुः स्वरूपोपलब्धिर्विविक्ता सोऽपवर्गः । यस्माद्दर्शनकार्यद्वयप्रयुक्तः

  1. आगमिभि:।