[ भाष्यम् ]
इयेते शास्त्रगता विकल्पाः । तत्र विकल्पबहुत्वमेतत् ॥ २३ ॥
'सर्वपुरुषाणां गुणसंयोगाविशेषः । असाधारणविषयस्तु प्रत्यक्चेतनस्य स्वबुद्धिसंयोगः
[ सूत्रम्]
तस्य हेतुरविद्या ॥ २४
[ भाष्यम्]
विपर्येयज्ञानवासनेत्यर्थः
।
[ विवरणम्]
सर्वविकल्पपक्षख्यापनार्थ उपन्यासः । दर्शनं ज्ञानं, तदेव ज्ञानमदर्शनमिति केचिन्मन्यन्ते। समासस्योत्तरपदार्थप्राधान्यमूरीकृत्यायं विकल्पः । एतस्य दोषोऽविद्यासूत्र एव व्याख्यातः ।
{{gap}}एते शास्त्रगता विकल्पाः दर्शनान्तरगता विकल्पाः । तत्र विकल्पबहुत्वमात्रमेतत् न बहुत्वमात्रेणार्थसिद्विरेत्यभिप्रायः । यस्य तु बुद्धिपुरुषसंयोगहेतुत्वं तस्यादर्शनं[नत्वं] युक्तं दर्शनविरोधात् । तथा च व्याख्यातमिति नात्र पुनः प्रयत्यते !! २३ !!
सर्वपुरुषाणां गुणसंयेगाविशेषः । गुणैः संयोगः सर्वेषामविशिष्टः साधारणः, तथाप्यसाधारणविषयस्तु प्रत्यात्म विशिष्टस्तु प्रत्यक्चेतनस्य बौद्धप्रत्ययानुदर्शनः स्वबुद्धिसंयोगः । स चासाधारणः स्वबुद्धिसंयोगो येन भवति तदेवादर्शनम् । तस्य हेतुरविद्या । तस्य स्वस्वामिशक्तिस्वरूपोपलब्धिहेतो:- संयोगस्य हेतुः कारणं अविद्या विपर्ययज्ञानवासनेत्यर्थः ॥
" "
ननु च 'विपर्ययो 'मिथ्याज्ञानमतद्रूपप्रतिष्ठम् इत्युक्तन् । तथा' 'अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या' इत्युक्तम् । अत्र कथं विपर्ययज्ञानवासनेत्युच्यते ! नैष दोषः-अविद्याकार्यत्वाद्वासनायाः
1. इदानीन्तनमुद्रितग्रन्थपाठस्तु-'तत्र विकल्पबहुत्वमेतत् सर्वपुरुषाणा गुणानां संयोगे साधारणविषयम् ।। २३ ||
यस्तु प्रत्यक्चेतनस्य स्वबुद्धिसंयोगः-(सू) 'तस्य हेतुरविद्या” इति ।
2. यो. सू. पा. 1. सू. 8.
3. यो. सू. पा. 2. सू. 5.