[ भाष्यम् ]
योगाङ्गानुष्ठानमशुद्धेः वियोगकारणम् । यथा परशुः छेद्यस्य । विवेकख्यातेस्तु प्राप्तिकारणं, यथा धर्मः सुखस्य ! नान्यथा कारणम् । कति चैतानि कारणानि शास्त्रे भवन्ति ? । नवैवेत्याह । तद्यथा
उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययाप्तयः ! वियोगान्यत्वधृतयः कारणं नवधा स्मृतम् ॥ इति । तत्रोत्पत्तिकारणं, मनो भवति विज्ञानस्य । स्थितिकारणं, मनसः पुरुषार्थता, शरीरस्येवाऽऽहार इति । अभिव्यक्तिकारणं य(था)दा रूपस्यालोकः तदा रूपज्ञानम् । विकारकारणं मनसो विषयान्तरम् , यथाऽग्निः पाक्यस्य । प्रत्ययकारणं धूमज्ञानमग्निज्ञानस्य ।
[ विवरणम् ]
योगाङ्गानुष्ठानमशुद्धेः क्षयकारणं विवेकख्यातेश्च प्राप्तिकारणमिति, द्विधैव कारणम् , धर्मपरशुद्वयस्थानीयमेकमुभयकारणं, नान्यथा भवतीति । तत्र कारणप्रसङ्गेन शास्त्रप्रासिद्धानि कारणानि व्याचष्टे-कति चैतानि कारणानि शास्त्रे भवन्ति ? नवैवेत्याह। तद्यथा-तानि श्लोकेनैव कथयति उत्पतिस्थित्याभिव्यक्तिविकारप्रत्ययाप्तयः । वियोगान्यत्वधृतयः कारणे नवधा स्मृतम् ॥ इति । तत्प्रविवेकार्थमुदाहरणानि प्रस्ताविष्यन्ते । तत्रोत्पतिकारणं मनो भवति [विज्ञानस्य], मनसो हि वृत्तिः ज्ञानं, यथा जलमूर्भीणाम् ॥
स्थितिकारणं स्थितेः कारणम् मनसः पुरुषार्थता। भोगापवर्गार्थत्वेन हि मनसः स्थितिः । शरीरस्य यथा स्थितिकारणमाहारः ॥
अभिव्यक्तेः कारणं रूपस्यालोकः । तदा रूपज्ञानम् । न ह्यालोकेनानभिव्यक्ते रूपेऽवबोधः ॥
विकारस्य कारणं मनसो विषयान्तरम् । विषयान्तरसन्निधानेन हि मनो विक्रियामासीदति । यथा अग्निः पाकस्य । य: पाकाख्यो विकारस्तस्य पाकस्य विकाररूपस्याग्नि: कारणं यथा ॥
प्रत्ययकारणं धूमज्ञानमग्निज्ञानस्य । प्रत्ययस्य फलवतः. प्रमाणुस्य कारणमित्यर्थः । पूर्वत्र तु 'भवति विज्ञानस्य' इति ज्ञानस्योपादानकारणं विवक्षितम् ॥