पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/276

पुटमेतत् सुपुष्टितम्
२३१
साधनपादो द्वितीयः

[ भाष्यम् ]

 अथ कः प्रत्याहारः---

[ सूत्रम् ]

स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ ५४ ॥

[ भाष्यम् ]

 स्वविषयसम्प्रयोगाभावे चित्तस्वरूपानुकार इवेति । चित्तनिरोध्रे चित्तवन्निरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवदुपायान्तरमपेक्षन्ते । यथा मधुकरराज्ञं मक्षिका उत्पतन्तमनूत्पतन्ति, निविशमानमनु निविशन्ते, तथेन्द्रियाणि चित्तनिरोधे निरुद्धानीत्येष प्रत्याहारः ॥ ५४ ॥

ततः परमा वशयतेन्द्रियाणाम् ॥ ५५ ॥ इति श्रीमहर्षिपतञ्जलिविरचिते योगसूत्रे द्वितीयः साधनपादः ॥

[ विवरणम् ]

 अथ कः प्रत्याहारः ? प्रत्याहारविशेषमभिधित्समानः प्रश्नेनोपक्रमते । स्वविषयादिन्द्रियाणां प्रत्याहरणमात्रं परेषां प्रत्याहारः।अत्र पुनर्विशेषवानुच्यते स्वविषयासम्प्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहार इति ॥

 स्वैः स्वैश्शब्दादिभिर्विषयैः इन्द्रियाणां श्रोत्रादीनां संयोगाभावे विषयदोषदर्शनात् ध्यायिनां स्वविषयात् निवर्तितानां चित्तस्वरूपानुकारतेव ।योगिनश्चित्तं यदाकारतां भजत तत् चित्तस्वरूपानुकारतेवेति ।

 एतदुक्तं भवति-चित्तनिरोधे चित्तवन्निरुद्धानि नोपायान्तरमपेक्षन्ते जयार्थम् । चित्तनिरोधादेव तानि निरुध्यन्ते । यथा मधुकरराजानम् श्रुत्यक्षरमेतत् । मधुकरराजमित्यर्थ: । मक्षिका उत्पतन्तमनूत्पतन्ति, निविशमानमनु निविशन्ते । तथैवेन्द्रियाणि चित्तनिरोधे निरुद्धानीत्यॆष प्रत्याहारः ॥ ५४ ॥

 ततः प्रत्याहारस्थैर्यात् परमा वश्यतेन्द्रियाणां भवति । इतिशब्दः समाप्त्यर्थः । यासां च वश्यतानां मध्ये प्रत्याहारस्थैर्यात् परमा वश्यता जायते ता उच्यन्ते--