पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/279

पुटमेतत् सुपुष्टितम्
१३४
पातञ्जलयोगसूत्रभाष्यविवरणे



[ सूत्रम् ]

तत्र प्रत्ययैकतानता ध्यानम् ॥ २ ॥

[ भाष्यम् ]

 तस्मिन् देशे ध्येयालम्बनस्य प्रत्ययस्य एकतानता सदृशप्रवाहः प्रत्ययान्तरेणापरामृष्टो ध्यानम् ॥ २ ॥



[ सूत्रम् ]

तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ ३ ॥

[ भाष्यम् ]

तदेव ध्यानं ध्येयाकारनिर्भासं प्रत्ययात्मकेन स्वरूपेण शून्यमिव यदा भवति ध्येयस्वभावावेशात् , तदा समाधिरित्युच्यते ॥ ३ ॥

[ विवरणम् ]

 तस्य चित्तस्य इत्येवमदिष्वप्रचलितरूपेण या वृत्तिः सा धारणेत्युच्यते । वृत्तिमात्रेणेति । तद्देशप्रत्ययमात्रेण विक्षेपशून्यतया वर्तत इति ॥ १ ॥

{{gap}}तत्र प्रत्ययैकतानता ध्यानम् । तस्मिन् देशे धारणावृत्तिविषये नाभिचक्रादौ । ध्येयालम्बनस्य ध्येयो देशादिः, तदालम्बनस्य । प्रत्ययस्य [एकतानतI]] सदृशप्रवाहः, तुल्यप्रत्ययानां प्रवाह एकाकारः प्रत्ययसन्तानः प्रत्ययान्तरेण विजातीयेन अपरामृष्टः अनाकीर्णः। तत् ध्यानम् ॥

 धारणा तु तस्मिन्नेव ध्येये तदवस्थस्यैव चित्तस्य तद्विषयविकल्पितैः प्रत्ययान्तरैः परामृष्टाऽपि । यथा सूर्ये धार्यमाणस्य तद्गतपरिमण्डलतीव्रतरदीधितित्वादिप्रत्ययेष्वपि धारणैव । वृत्तिमात्रेण तत्रैव वर्तमानत्वाच्चित्तस्य । ध्यानं पुनः न तु तथा । भिन्नजातीयप्रत्ययान्तरापरामृष्टैकप्रत्ययप्रवाह एव हि ध्यानम् ।।२।।

 तदेवाथैमात्रनिर्भासं स्वरूपशून्यमिव समाधिः । तदेव ध्यानं तुल्यप्रत्ययप्रवाहरूपं स्वामेकप्रत्ययसन्तानतामित्र हित्वा ध्येयाकारनिर्भासं ध्येयाकारवदवभासते । प्रत्ययात्मकेन स्वेन ग्रहणात्मना स्वरूपेण शून्यमिव । यथा स्फटिकद्रव्यमुपधानावभासं स्वरूपशून्यमित्र । यदा भवति ध्येयस्वभावावेशात् कारणात् चितस्य, तदा तदेव ध्यानं समाधिरित्युच्यते ॥

 ननु च योगः समाधिरित्यङ्गी पूर्वमुक्तः । इहाङ्गो योगस्य समाधेिरित्याख्यायते । कः पुनरत्राङ्गाङ्गिनोर्भेद इति ? उच्यते--योगः समाधिरिति चित्तस्थितिविशेषो विवक्षितः । इह तु प्रत्ययसन्तानस्यैव ध्येयस्वभावावेशात् ध्येयाकारत्वमङ्गमिति विशेषः ॥ ३ ॥


1. सदृशः प्र. 2. ध्यानमेव ध्ये.