पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/281

पुटमेतत् सुपुष्टितम्

२ं३६

पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 तस्य संयमस्य, जितभूमेः या अनन्तरा भूमिः तत्र, विनियोगः । न ह्यजिताधरभूमिः अनन्तरभूमिं विलङ्घ्य प्रान्तभूमिषु संयमं लभते । तदभावाच्च ‘कुतस्तत्र प्रज्ञाऽऽलोकः ? °जितोत्तरभूमिकस्य° नाधरभूमिषु परचित्तज्ञानादिषु संयमो युक्तः । कस्मात् ? तदर्थस्य

[ विवरणम् ]

 तद्भूमिजयसाक्षात्प्रयोजनार्थिना तस्य संयमस्य, जितभूमेः जिताया भूमेः, यत्र भूमौ योगिनः संयतायां संयमो लब्धः, तस्या जिताया भूमेः अनन्तरा या भूमिस्तत्र संयमस्य पूर्वभूमिजयानन्तरं विनियोगः करणीयः ॥

 तद्यथा--पृथिव्यादीनां स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वभूमिषु क्रमेण जेतव्यासु, स्थूलायां भूमौ संयमं कृत्वा, तज्जयानन्तरं स्वरूप एवानन्तरे संयमो विनियोजनीयः । नानन्तरं स्वरूपं व्यतिलङ्घ्य सूक्ष्मादिभूमिषु संविदधीत ।

 कस्मादेवम् ? न ह्यजिताधरभूमिरनन्तरां भूमिं विलङ्घय प्रान्तभूमिषु उपरितनीषु भूमिषु संयमं लभते ।।  यदि चानन्तरां भूमिमजित्वा प्रान्तभूमिषु संयमं विनियुङ्क्षेत, तमेव संयमं न लभते । ततश्च तदलाभ एव दोषः । तदलाभाच्च संयमाभावाच्च कुतस्तत्र संयमविषये प्रान्तभूमावित्यर्थः । प्रज्ञाऽऽलोकः । निमित्ताभावात् । न ह्यसति तैलवर्तिज्वलनाभिसन्निपाते प्रदीपालोकः ॥

 जितोत्तरभूमिकस्य जितोत्तरात्मादिभूमिकस्य योगिनः नाधरभूमेिषु परचित्तज्ञानादिषु संयमो युक्तः । कस्मात्? तदर्थस्य आत्मादेः उत्तरभूमेरपकृष्टपरचित्तज्ञानादिभूमिवैपरीत्येन अन्यथैवाधिगतत्वात् । परचित्तज्ञानादिभिः संकीर्णं असमाधिगतविवेकात्मकत्वात् । तत्र हि जितोत्तरभूमिसंयमस्य परकीयचित्तालम्बनत्वे संकीर्णचित्ताकारता योगेिचित्तस्यापि स्यादिति न युक्तः । तत्रात्मादेरर्थस्यान्यथैव विविक्ततयाऽधिगतत्वात् ॥

1. कुतस्तस्य 2. ईश्वरप्रसादात् जितो 3. स्य च