पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/283

पुटमेतत् सुपुष्टितम्

२३८

पातञ्जलयोगसूत्रभाष्याववरणे

[ सूत्रम् ]

तदपि बहिरङ्ग निर्बीजस्य ॥ ८ ॥

[ भाष्यम् ]

 तदपि अन्तरङ्गं साधनत्रयं, निर्बीजस्य योगस्य बहिरङ्गं भवति । कस्मात् ? । तदभावे भावात् इति ॥ ८ ॥

 अथ निरोधचित्तक्षणेषु, चलं गुणवृत्तम् इति कीदृशस्तदा। 'निरोधपरिणामः ? --

[ विवरणम् ]

 विनापि हि यमादिसाधनपञ्चतयसम्पादनेन जन्मान्तरविहितसंस्कारा वेशवशादेव विदेहप्रकृतिलयानामिव धारणादित्रयसम्पत्या योग उपकल्प्यते। धारणादित्रयेण विना न योगः संभवति कस्यचित् | तव्द्यापारनैरन्तर्यसंवादात्मकत्वाद्धारणादित्रयस्य । योगस्य चित्तसम्पतिरूपत्वातू ॥'

 यदा तु ज्ञानवैराग्यसम्पतिः, तदा न किंचिदन्यद्धारणाद्यप्यपेक्ष्यते। तथा च मङ्किपिङ्गलाप्रभृतीनामनुश्रूयते वैराग्यादेव समस्तसिद्धिः । तथा। चोक्तम्-*स्थानासनविधानानि’ इति पूर्वत्र श्लोकद्वयम् ॥ ७ ॥

 तदपि बहिरङ्गं निर्बीजस्य । तदपि एतत् अन्तरङ्गमपि सबीजस्य योगस्य, बहिरङ्ग भवति निर्बीजस्य योगस्य । कस्मात् ? तदभावे भावात्। तस्य सबीजान्तरङ्गसाधनत्रयस्याभावेऽपि पुरुषसत्त्वविशेषापेक्षया निबीजयोगस्य भावात् बहिरङ्गत्वम् ॥

 केचिदतिसमीचीनदर्शना जन्मनैव संस्कारादपरक्ताः । तेषां परवैराग्यविरामप्रत्ययसंशीलनदिसमीक्षया निर्बीजः समाधिरुपजनिष्यत एव । न हि तेषां धारणादिसमीक्षणम् । तथा चोक्तम्-'उक्त्तः समाहितचित्तस्य योगः । व्युत्थितचित्तोऽपि कथं योगयुक्तः स्यादित्यत इदमारभ्यते' इति । तथा 'भवप्रत्ययो विदेहप्रकृतिलयानामू' इति ॥ ८ ॥

 अथ निरोधचित्तक्षणेषु निरोधयुक्तं निरुध्यमानं चित्तं येषु' क्षणेषु निरुध्यते ते निरोधचित्तक्षणाः तेषु निरोधकाले इत्यर्थः । क्षणेष्विति बहुवचनं अतीतानागतवर्तमानवृत्तित्वप्रदर्शनार्थम् ॥

 1. चित्तपारिणाम:

 2. यो. 4 • पा. 2. सू. 1.

 3. यो. सू. पा. 1. सू. 19.