पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/289

पुटमेतत् सुपुष्टितम्
२४४
पातञ्जलयोगसूत्रभाष्यविवरणे



[भाष्यम् ]

 न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तः । तथा व्युत्थानं त्रिलक्षणं त्रिभिरध्वभिर्युक्तं वर्तमानलक्षणं हित्वा धर्मत्वमनातिक्रान्तं अतीतलक्षणं प्रतिपन्नम् । एषोऽस्य [१]द्वितीयोऽध्वा । न चानागतवर्तमानाभ्यां लक्षणाभ्यां वियुक्तम् ।। [२]पुनः व्युथानमुपसम्पद्यमानं अनागतलक्षणं हित्वा धर्मत्वमनतिक्रान्तं वर्तमानलक्षणं प्रतिपन्नम् । यत्रास्य स्वरूपाभिव्यक्तौ सत्यां व्यापारः । एषोऽस्य द्वितीयोऽध्वा । न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तं इति । एवं पुनर्निरोधः, एवं पुनर्व्युत्थानं इति ।

[ विवरणम् ]


  यदा तु व्युत्थानं वर्तमानं लक्षणमारोक्ष्यति, तदा निरोधोऽतीतलक्षणमध्वानं तृतीयं प्राप्स्यतीति स तृतीयोऽध्वा भविष्यत्येव ।

 स्यादेतत्-वर्तमानलक्षणप्रतिपत्तौ निरोधस्य त्र्यध्वत्वं नास्तीति, अत आह-न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तः । कुतः ? येन स एवानागतो वर्तमानोऽतीतश्चेति ॥

 तथा व्युत्थाने त्रिलक्षणं त्रिभिरध्वभिः अतीतानागतवर्तमानैः युक्तं वर्तमानलक्षणं हित्वा धर्मत्वमनतिक्रान्तं यथा व्याख्यातं निरोधे निरोधिनि धर्मे वर्तमानमध्वानमभिसम्पद्यमाने अतीतलक्षणं अध्वानं प्रतिपन्नम् ॥  एषोऽस्य व्युत्थानस्य वर्तमानं प्रथममध्वानमभिसमीक्ष्य द्वितीयोऽध्वा । द्वितीये तु पर्याये तृतीय एवाध्वा द्वितीयो भविष्यति । न चानागतवर्तमानाभ्यां लक्षणाभ्यां वियुक्तम् ॥

 पुनर्व्युत्थानं निरोधसंस्कारेण उपसम्पद्यमानम् अनागतलक्षणं अध्वानं हित्वा धर्मत्वमनतिक्रान्तं वर्तमानलक्षणं प्रतिपन्नम् । यत्रास्य स्वरूपेणाभिव्यक्तौ सत्यां व्यापारः स्वकार्यापादनसामर्थ्यम् । एषोऽस्य अनागताभिसमीक्षया द्वितीयोऽध्वा । न चातीतानागताम्यां लक्षणाभ्यां वियुक्तम् ॥  यथा चित्तं व्युत्थाननिरोधधर्माभ्यां न युज्यते । एवं पुनर्निरोधः एवं पुनः व्युत्थानमिति एष लक्षणपरिणामश्चित्तधर्मयोर्व्युत्थाननिरोधयोः ॥


  1. -स्य तृ.
  2. एवं पुनः